________________
तोदकप्लुतहस्तादिनाऽशनादेग्रहणं १ भोजनं २ चेति । द्वाविंशतिः परीषहाश्च, ते चामी-"खुहारपिवासा २ सीउण्हं ३-४ दंसा ५ चेल ६ऽरई ७थिओ८।चरिया ९ निसीहिया १० सेजा ११ अक्कोसा १२ वह १३ जायणा १४ ॥१॥ अलाभ १५ रोग १६ तणफासा १७ मलसक्कारपरीसहा १८-१९ । पण्णा २० अन्नाण २१ सम्मत्तं २२, इय बावीस परीसहा ॥२॥" 'सूयगडज्झयण'त्ति त्रयोविंशतिः सूत्रकृताध्ययनानि, तत्र समयादीनि प्रथमश्रुतस्कन्धभावीनि प्रागुक्तान्येव षोडश द्वितीयश्रुतस्कन्धभावीनि चान्यानि सप्त, तद्यथा-"पुंडरिय १ किरियठाणं २ आहारपरिण ३ पचखाणकिरिया ४ य । अणयार ५ अ६६ णालंद ७ सोलसाई च तेवीसं ॥१॥"ति, 'देव'त्ति चतुर्विशतिर्देवाः, तत्र गाथा-"भवण १ वण २ जोइ ३ |वेमाणिया य ४ दस अट्ठ पंच एगविहा।" इति, "चउवीसं देवा केई पुण बेंति अरहंता" 'भावण'त्ति पञ्च|विंशतिर्भावनाः, ताश्च इहैव प्रतिमहाव्रतं पञ्च पञ्चाभिहिताः, 'उद्देस'त्ति षड्विंशतिरुद्देशनकाला दशाकल्पव्यवहाराणां, तत्र गाथा-"दस उद्देसणकाला दसाण छच्चेव होंति कप्पस्स । दस चेव य ववहारस्स होति सव्वेवि छव्वीसं ॥१॥” 'गुण'त्ति सप्तविंशतिरनगारगुणाः, तत्र महाव्रतानि पञ्च ५ इन्द्रियनिग्रहाः पञ्च १० क्रोधादिविवेकाश्चत्वारः १४ सत्यानि त्रीणि, तत्र भावनासत्यं-शुद्धान्तरात्मा करणसत्यं-यथोक्तप्रतिलेखनाक्रियाकरणं योगसत्यं-मनाप्रभृतीनामवितथत्वं १७ क्षमा १८ विरागता १९ मनःप्रभृतिनिरोधाश्च २२ ज्ञानादिसम्पन्नता २५ वेदनादिसहनं २६ मारणान्तिकोपसर्गसहनं २७ चेति, अथवा “वयछक्क ६ मिदियाणं च
For Personal & Private Use Only
Jain Education International
Kolhanelibrary.org