________________
अनवद्यप्रवीचाराप्रवीचाररूपाः, तिस्रश्च विराधनाः - ज्ञानादीनां सम्यगननुपालनाः, चत्वारः कषायाः - क्रोधा दयः ध्यानानि - एकाग्रतालक्षणानि आर्त्तरौद्रधर्म्यशुक्लाभिधानानि संज्ञाः - आहार भयमैथुनपरिग्रहसंज्ञाभिधानाः विकथाः - स्त्रीभक्तदेशराजकथालक्षणाः तथा च भवन्ति चतस्रः, पञ्च च क्रियाः - जीवव्यापारात्मिकाः | कायिक्याधिकरणिकीप्राद्वेषिकीपारितापनिकीप्राणातिपातक्रियालक्षणा भवन्तीति सर्वत्र क्रिया दृश्या, तथा 'समितिइंदियमहव्वयाइ यत्ति समितीन्द्रियमहाव्रतानि पञ्च भवन्तीति प्रकृतं, तत्र समितय: - ईर्यासमित्यादयः निरवद्यप्रवृत्तिरूपाः इन्द्रियाणि-स्पर्शनादीनि महाव्रतानि च प्रतीतान्येवेति तथा षट् जीवनिकायाः - पृथिव्यादयः षट् च लेश्याः - कृष्णनीलकापोततेजः पद्मशुक्लनामिकाः, तथा 'सत्त भय'त्ति सप्त भयानि, इहलोकभयं - खजातीयात् मनुष्यादेर्मनुष्यादिकस्यैव भयं परलोकभयं - विजातीयात्तिर्यगादेः मनुष्यादिकस्य भयं, आदानभयं द्रव्यमाश्रित्य भयं अकस्माद्भयं - बाह्यनिमित्तानपेक्षं आजीविकाभयं -वृत्तिभयमित्यर्थः मरणभयं अश्लोकभयमिति, 'अट्ठ य मय'त्ति अष्टौ च मदाः- मदस्थानानि, तद्यथा - "जाई १ कुल २ बल ३ रूवे ४ तव ५ ईसरिए ६ सुए ७ लाभे ८ ।” नव चैव ब्रह्मचर्यगुप्तयः, “वसहि १ कह २ निसज्जिं ३ दिय ४ कुड़ंतर ५ पुव्वकीलिए ६ पणीए ७ । अतिमायाहार ८ विभूसणा य ९ णव वंभगुत्तीओ ॥ १ ॥ त्ति एवंलक्षणा भवन्तीति गम्यं, दशप्रकारश्च श्रमणधर्म्मो, यथा-खंती य १ मद्दव २ ज्जव ३ मुत्ती ४ तव ५ संजमे य बोद्धव्वे ६ । सचं सोयं ८ अकिंचणं च ९ बंभं च १० जइधम्मो १० ॥ १ ॥” एकादश चोपासकानां -
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org