Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 281
________________ निरीक्षितं गतिः- गमनं विलासः -पूर्वोक्तलक्षणः क्रीडितं यूतादिक्रीडा एषां समाहारद्वन्द्वः विबोकितं -पूर्वोक्तलक्षणो विब्बोकः नाव्यं-नृत्तं गीतं गानं वादितं वीणावादनं शरीरसंस्थानं - ह्रस्वदीर्घादिकं वर्णो-गौ| रवत्वादिलक्षणः करचरणनयनानां लावण्यं स्पृहणीयता रूपं च-आकृतिः यौवनं - तारुण्यं पयोधरौ - स्तनौ अधरः - अधस्तनौष्ठः वस्त्राणि वसनानि अलङ्कारा-हारादयः भूषणं च मण्डनादिना विभूषाकरणमिति द्वन्द्वस्ततस्तानि च न प्रार्थयितव्यानीति सम्बन्धः, तथा गुह्यावकाशिकानि गुह्यभूता - लज्जनीयत्वात् स्थग नीयाः अवकाशा-देशा अवयवा इत्यर्थः अन्यानि च-हासादिव्यतिरिक्तानि एवमादिकानि - एवंप्रकाराणि | तपः संयमब्रह्मचर्य घातोपघातिकानि अनुचरता ब्रह्मचर्ये न चक्षुषा न मनसा न वचसा प्रार्थयितव्यानि पापकानि पापहेतुत्वादिति, एवं स्त्रीरूपविरतिसमितियोगेन भावितो भवत्यन्तरात्मेत्यादि निगमनवाक्यं व्यक्त| मेवेति ३ । 'चउत्थं'ति चतुर्थ भावनावस्तु यत्कामोदयकारिवस्तुदर्शन भणनस्मरणवर्जनं, तचैवं पूर्वरतं गृहस्थावस्थाभाविनी कामरतिः पूर्वक्रीडितं - गृहस्थावस्थाश्रयं द्यूतादिक्रीडनं तथा पूर्वे - पूर्वकालभाविनः सग्रन्थाः-श्वशुरुकुलसम्बन्धसम्बद्धाः शालकशालिकादयः ग्रन्थाश्च - शालकादिसम्बद्धास्तद्भार्यास्तत्पुत्रादयः संश्रुताश्चदर्शन भाषणादिभिः परिचिता ये ते तथा तत एतेषां द्वन्द्वस्तत एते न श्रमणेन लभ्याः द्रष्टुं न कथयितुं नापि च स्मर्त्तुमिति सम्बन्धः, तथा 'जे ते'प्ति ये एते वक्ष्यमाणाः, केष्वित्याह- 'आवाहविवाहचोलएसुयन्ति आ वाहो - वध्वा वरगृहानयनं विवाह: - पाणिग्रहणं 'चोलके 'ति 'विहिणा ब्लाकम्मं बालाणं चोलयं नामन्ति Jain Educational For Personal & Private Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332