________________
प्रश्नव्याकर० श्रीअभयदेव० वृत्तिः
४ अधर्म| द्वारे | मैथुनासे
विनः चक्रवर्तिवर्णनं सू०१५
द्यमानावस्थं न तु विरामावस्थं स्तनितं-मेघगर्जितं तन्मधुरो गम्भीरः स्निग्धश्च घोषो येषां ते तथा, वाचनान्तरे 'सागरनवे'त्यादि दृश्यते, उत्पन्नसमस्तरत्नाश्च ते चक्ररत्नप्रधानाश्चेति विग्रहः, रत्नानि च तेषां चतुदेश, तद्यथा-'सेणावइ १ गाहावइ २ पुरोहिय ३ तुरग ४ वडइ ५ गय ६ इत्थी ७ । चकं ८ छत्तं ९ चम्म १० मणि ११ कागणि १२ खग्ग १३ दंडो य १४॥१॥" नवनिधिपतयः, निधयश्चैवम्-"नेसप्पं १ पंड २ पिंगलय ३ सव्वरयणे ४ तहा महापउमे ५ । काले य ६ महाकाले ७ माणवग महानिही ८ संखे ९॥१॥ समृद्धकोशा इति प्रतीतं, चत्वारोऽन्ता-भूविभागाः पूर्वसमुद्रादिरूपा येषां ते तथा ते एव चातुरन्ताः, तथा चतुर्भिरंशैः-हस्त्यश्वरथपदातिलक्षणैरुपेताश्चातुर्यस्ताभिः सेनाभिः समनुयायमानमार्गाः-समनुगम्यमानपथाः, एतदेव दर्शयति-तुरगपतय इत्यादि, विपुलकुलाश्च ते विश्रुतयशसश्च-प्रतीतख्यातय इति विग्रहः, शारदशशी यः सकल:-पूर्णस्तद्वत्सौम्यं वदनं येषां ते तथा, शूराः-शौण्डीरास्त्रैलोक्यनिर्गतप्रभावाश्च ते लब्धशब्दाश्च-प्राप्तख्यातय इति विग्रहः, समस्तभरताधिपा नरेन्द्रा इति प्रतीतं, सह शैलैः-पर्वतैः वनैः-नगरविप्रकृष्टैः काननैश्च-नगरासन्नैर्यत्तत्तथा हिमवत्सागरान्तं धीरा भुक्त्वा भरतवर्ष जितशत्रवः प्रवरराजसिंहाः | पूर्वकृततपःप्रभावा इति प्रतीतं, निर्विष्टं-परिभुक्तं सञ्चितं-पोषितं सुखं यैस्ते तथा, अनेकवर्षशतायुष्मन्तः भार्याभिश्च जनपदप्रधानाभिाल्यमानाः-विलास्यमानाः अतुला-निरुपमा ये शब्दस्पर्शरसरूपगन्धास्ते
॥ ७१
निपदप्रधानाभि नावष्टं-परिभुक्तं मीरा भुक्त्वा भरतीसह शैलैः पर्वत: बवाश्च ते ।
dan Education
For Personal & Private Use Only
Jainelibrary.org