Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 271
________________ चेवत्ति अरविन्द-पद्मं यथा पुष्पज्येष्ठमेवमिदं व्रतानां, 'गोसीसं चेय'त्तिगोशीर्षाभिधानं चन्दनं यथा चन्दनानां 'हिमवंतं चेव'त्ति हिमवानिव औषधीनां, यथा हिमवान्-गिरिविशेषः औषधीनां-अद्भुतकार्यकारिवनस्पतिविशेषाणामुत्पत्तिस्थानमेवं ब्रह्मचर्यमौषधीनां-आमशोषध्यादीनामागमप्रसिद्धानामुत्पत्तिस्थानमिति भावः, 'सीतोदा चेव'त्ति शीतोदेव निम्नगाना-नदीनां यथा नदीनां शीतोदा प्रवरा तथेदं व्रतानामित्यर्थः, उदधिषु यथा खयम्भूरमण:-अन्तिमसमुद्रो महत्त्वे प्रवरः एवमिदं व्रतानां प्रवरमिति 'रुयगवरे चेव मंडलिए पव्वयाण पवरे'त्ति यथा माण्डलिकपर्वतानां-मानुषोत्तरकुण्डलवररुचकवराभिधानानां मध्ये रुचकवर:-त्रयोदशद्वीपवर्ती प्रवरः एवमिदं व्रतानां प्रवरमिति भावः, तथा ऐरावण इव-शक्रगजो यथा कुञ्जराणां प्रवरः एवमिदं ब्रतानां, सिंहो वा यथा मृगाणां-आटव्यपशूनां प्रवर:-प्रधानः एवमिदं व्रतानां 'पवगाणं चेव'त्ति प्रवकाणामिव-प्रक्रमात् सुपर्णकुमाराणां यथा वेणुदेवः प्रवरः तथा व्रतानां ब्रह्मचर्यमिति प्रकृतं, तथा धरणो यथा पन्नगेन्द्राणां-भुजगवराणां नागकुमाराणां राजा पन्नगेन्द्रराजः पन्नगानां प्रवरः एवमिदं व्रतानामिति प्रक्रमः, कल्पानामिव-देवलोकानां यथा ब्रह्मलोकः-पश्चमदेवलोकः तत्क्षेत्रस्य महत्त्वात् , तदिन्द्रस्यातिशुभपरिणामत्वात् प्रवरः एवमिदं व्रतानां, सभासु च-प्रतिभवनविमानभाविनीषु सुधर्मसभा उत्पादसभा अभिषेकसभा अलङ्कारसभा व्यवसायसभा चेत्येवंलक्षणासु पञ्चसु मध्ये यथा सुधर्मा भवति प्रवरा तथेदं व्रतानामिति, स्थितिषु-आयुष्केषु मध्ये लवसप्तमा-अनुत्तरसुरभवस्थितिः वाशब्दो यथाश Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332