________________
च-अपरे गजचरणमलनेन निर्मर्दिता-दलिता येते तथा, ते क्रियन्ते पापकारिणः-चौर्यविधायिनः अष्टादशसु स्थानेषु खण्डिताः येते तथा, ते च क्रियन्ते कैरित्याह-मुसुण्डपरशुभिः-मुण्ड[कुण्ठ]कुठारैः, तीक्ष्णैर्हि तैः अत्यन्तं वेदनोत्पद्यत इति मुण्ड इति विशेषणमिति, तथा केचित्-अन्ये उत्कृत्तकोष्ठनाशाः-छिन्नश्रवणदशनच्छदघ्राणाः उत्पाटितनयनदशनवृषणा इति प्रतीतं जिह्वा-रसना आञ्छिता-आकृष्टा छिन्नौ कौँ शिरश्च शिरा वा-नाड्यो येषां ते तथा प्रनीयन्ते आघातस्थानमिति गम्यते, छिद्यन्ते असिना-खगेन, तथा निर्विषया |-देशान्निष्कासिता छिन्नहस्तपादाश्च प्रमुच्यन्ते-राजकिङ्करैस्त्यज्यन्ते, छिन्नहस्तपादा देशानिष्काल्यन्त इतिता भावः, तथा यावज्जीवबन्धनाश्च क्रियन्ते केचिद्-अपरे, के इत्याह-परद्रव्यहरणलुब्धा इति प्रतीतं, कारागलया -चारकपरिघेन निगलयुगलैश्च रुडा-नियन्त्रिता येते तथा, ते च केत्याह-'चारगाए'त्ति चारके-गुप्ता, किंविधाः सन्त इत्याह-हृतसारा:-अपहृतद्रव्याः खजनविप्रमुक्ता मित्रजननिराकृता निराशाश्चेति प्रतीतं, बहुजनधिक्कारशब्देन लजापिताः-प्रापितलज्जा येते तथा, अलजा-विगलितलज्जाः, अनुबद्धक्षुधा-सततबुभुक्षया प्रारब्धा-अभिभूताः अपराद्धा वा ये ते तथा शीतोष्णतृष्णावेदनया दुर्घटया-दुराच्छादया घहिताःस्पृष्टा ये ते तथा, विवर्णमुखं विरूपा च छवी-शरीरत्वक येषां ते विवर्णमुखविच्छविकाः ततोऽनुबद्धेत्यादिपदानां कर्मधारयः, तथा विफला-अप्राप्तेप्सितार्थाः मलिना:-मलीमसा दुर्बलाश्च-असमर्था ये ते तथा, क्लान्ता-ग्लानाः तथा काशमाना-रोगविशेषात् कुत्सितशब्दं कुर्वाणाः व्याधिताश्च-सञ्जातकुष्ठादिरोगाः
Jain Educati
o nal
For Personal & Private Use Only
IR
w.jainelibrary.org