________________
विंशतितम पर्व
४२५
सुसीमा सीमसंपमा क्षेमा च क्षेमकारिणी । व्यतीतशोकनामा च चम्पा च विदिता भुवि ।।१५॥ कौशाम्बी च महाभोगा तथा नागपुरं पृथु । साकेता कान्तभवना छत्राकारपुरं तथा ॥१६॥ अनुक्रमेण शेषाणां जिनानां पूर्वजन्मनि । राजधान्य इमा ज्ञेयाः पुर्यः स्वर्गपुरीसमाः ॥७॥ वज्रनामिरिति ख्यातस्तथा विमलवाहनः । अन्यश्च विपुलख्यातिः श्रीमान् विपुलवाहनः ॥१८॥ महाबलोऽपरः कान्तस्तथातिबलकीर्तनः । अपराजितसंज्ञश्च नन्दिषेणाभिधोऽपरः ॥१९॥ पद्मश्चान्यो महापद्मस्तथा पद्मोत्तरो भुवि । नाथः पङ्कजगुल्माख्यः पङ्कजप्रतिमाननः ॥२०॥ विभुर्नलिनगुल्मश्च तथा पदासनः सुखी । स्मृतः पद्मरथो नाथः श्रीमान् दृढरथोऽपरः ॥२१॥ महामेघरथो नाम शूरः सिंहरथाभिधः । स्वामी वैश्रवणी धीमान् श्रीधर्मोऽन्यो महाधनः ॥२२॥ अप्रतिष्ठः सुरश्रेष्ठः सिद्धार्थः सिद्धशासनः । आनन्दो नन्दनीयोऽन्यः सुनन्दश्चेति विश्रुतः ॥२३॥ पूर्वजन्मनि नामानि जिनानामिति विष्टपे। प्रख्यातानि मयोक्तानि क्रमेण मगधाधिप ॥२४॥ वज्रसेनो महातेजास्तथा वीरो रिपुंदमः । अन्यः स्वयंप्रभाभिख्यः श्रीमान विमलवाहनः ।।२५।। गुरुः सीमन्धरो ज्ञेयो नाथश्च पिहितास्रवः । महातपस्विनावन्यावरिन्दमयुगन्धरौ ॥२६।। तथा सर्वजनानन्दः सार्थकामिख्ययान्वितः । अभयानन्दसंज्ञश्च वज्रदन्तोऽपरः प्रभुः ॥२७॥ वज्रनाभिश्च विज्ञेयः सर्वगुप्तिश्च गुप्तिमान् । चिन्तारक्षप्रसिद्धिश्च पुनर्विपुलवाहनः ॥२८॥ मुनिर्घनरवो धीरः संवरः साधुसंवरः । वरधर्मस्त्रिलोकीयः सुनन्दो नन्दनामभृत् ॥२९॥ व्यतीतशोकसंज्ञश्च डोमरः प्रोष्ठिलस्तथा । क्रमेण गुरवो ज्ञेया जिनानां पूर्वजन्मनि ॥३०॥ सर्वार्थसिद्धिसंशब्दो वैजयन्तः सुखावहः । अवेयको महामासः वैजयन्तः स एव च ॥३॥ ऊर्ध्वग्रैवेयको ज्ञेयो मध्यमश्च प्रकीर्तितः । वैजयन्तो महातेजा अपराजितसंज्ञकः ॥३२॥ आरणश्च समाख्यातस्तथा पुष्पोत्तराभिधः । कापिष्टः पुरुशुक्रश्च सहस्रारो मनोहरः ॥३३॥ त्रिपुष्पोत्तरसंज्ञोऽतो मुक्तिस्थानधरस्थितः । विजयाख्यस्तथा श्रीमानपराजितसंज्ञकः ॥३४॥ नागपुर, साकेता और छत्राकारपुर। ये सभी राजधानियाँ स्वर्गपुरीके समान सुन्दर, महाविस्तृत तथा उत्तमोत्तम भवनोंसे सुशोभित थीं ॥१४-१७|| अब इनके पूर्वभवके नाम कहता हूँ१ वज्रनाभि, २ विमलवाहन,३ विपलख्याति.४ विपलवाहन. ५ महाबल, ६ अतिबल, ७ अपराजित, ८ नन्दिषेण, ९ पद्म, १० महापद्म, ११ पद्मोत्तर, १२ कमलके समान मुखवाला पंकजगुल्म, १३ नलिनगुल्म, १४ पद्मासन, १५ पद्मरथ, १६ दृढ़रथ, १७ महामेघरथ, १८ सिंहरथ, १९ वैश्रवण, २० श्रीधर्म, २१ उपमारहित सुरश्रेष्ठ, २२ सिद्धार्थ, २३ आनन्द और २४ सुनन्द । हे मगधराज ! ये बुद्धिमान् चौबीस तीर्थंकरोंके पूर्वभवके नाम तुझसे कहे हैं। ये सब नाम संसारमें अत्यन्त प्रसिद्ध थे ॥१८-२४॥ अब इनके पूर्वभवके पिताओंके नाम सुन-१ वज्रसेन, २ महातेज, ३ रिपुंदम, ४ स्वयंप्रभ, ५ विमलवाहन, ६ सीमन्धर, ७ पिहितास्रव, ८ अरिन्दम, ९ युगन्धर, १० सार्थक नामके धारक सर्वजनानन्द, ११ अभयानन्द, १२ वज्रदन्त, १३ वज्रनाभि, १४ सर्वगुप्ति, १५ गुप्तिमान्, १६ चिन्तारक्ष, १७ विपुलवाहन, १८ घनरव, १९ धीर, २० उत्तम संवरको धारण करनेवाले संवर, २१ उत्तम धर्मको धारण करनेवाले त्रिलोकीय, २२ सुनन्द, २३ वीतशोक डामर और २४ प्रोष्ठिल। इस प्रकार ये चौबीस तीर्थंकरोंके पूर्वभव सम्बन्धी चौबीस पिताओंके नाम जानना चाहिए ॥२५-३०॥ अब चौबीस तीर्थंकर जिस-जिस स्वर्गलोकसे आये उनके नाम सुन-१ सर्वार्थसिद्धि, २ वैजयन्त, ३ ग्रैवेयक, ४ वैजयन्त, ५ वैजयन्त, ६ ऊर्ध्व ग्रैवेयक, ७ मध्यम ग्रैवेयक, ८ वैजयन्त, ९ अपराजित, १० आरण, ११ पुष्पोत्तर, १२ कापिष्ट, १३ महाशुक्र, १४ सहस्रार, १५ पुष्पोत्तर, १६ पुष्पोत्तर, १७ पुष्पोत्तर, १८ सर्वार्थसिद्धि, १९ विजय, २० अपरा
१. वज्रदत्तः म., ब., ज., क.। २. डामिल: म.।
५४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org