________________
૧૬૦
श्रीविचारपञ्चाशिका
भूमिभ्यो ये समागत्य गर्भजमनुष्यत्वेनोत्पन्नास्तेषां (शरीरं जघन्येन हस्तपृथक्त्वं, उत्कर्षतः पञ्चशतधनुर्मानम् । तेषाञ्च) जघन्यस्थितिर्वर्षपृथक्त्वं, उत्कृष्टा पूर्वकोटिः । तथा भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानान्तदेवेभ्यः समागत्य ये गर्भजमुनुष्यत्वेनोत्पन्नस्तेषां जघन्येन स्थितिर्मासपृथक्त्वं, उत्कर्षतः पूर्वकोटिः । तेषां शरीरं जघन्येनाङ्गुलपृथक्त्वं, उत्कर्षतः पञ्चशतधनुर्मानम् । तथा सनत्कुमाराद्यनुत्तरान्तेभ्यो देवेभ्यः समागत्य ये गर्भजमनुष्यत्वेनोत्पन्नास्तेषां स्थितिर्जघन्येन वर्षपृथक्त्वं, उत्कर्षतः पूर्वकोटि: । तेषाञ्च शरीरं जघन्येन हस्तपृथक्त्वं, उत्कर्षतः पञ्चशतधनुर्मानमिति ॥ २७ ॥
अथ पुद्गल्यपुद्गलिनां विचारमाह
धम्माधम्मागासा, जीवा कालो य खायगं चेव । सासायण उवसमियं, अपुग्गलाई तु एयाई ॥ २८ ॥ ओरालिय वेउव्विय, आहारग तेयसं झुंणी (य) मणो । उस्सासं निस्सासं, कम्मणकम्माणि छाय तमो ॥ २९ ॥ वग्गणअनंत आयव, मिस्सक्खंधो अचित्तमर्हखंधो । वेयग खाओवसमं, उज्जोय पुग्गल सुए भणियं ॥ ३० ॥
अवचूरि: - धर्मास्तिकाया१ऽधर्मास्तिकाया२ऽऽकाशास्तिकाय ३ जीव ४ काल ५ क्षायिक ६ सास्वादैनौ ७ पशमिकानि ८ एतान्यपुद्गलिकानि भवन्तीति ॥२८॥ औदारिक १ वैक्रिया २ ऽऽहारक ३ तैजस ४ ध्वनि ५ मन ६ उच्छ्वासनिःश्वास ७ कार्मणशरीर ८ कर्म ९ च्छाया १० तमो ११ ऽनन्तवर्गणा १२ तप १३ मिश्रस्कन्धा १४ चित्तमहास्कन्ध १५ वेदकसम्यक्त्व १६ क्षायोपशमिकसम्यक्त्वो १७ द्योतं १८ इदं पौद्गलिक वृन्दमिति ||२९|| ||३०|
१. 'झूणी' इत्यपि । २. 'समासे वा' सिद्धहेमशब्दानुशासन ८ । २ । ९७ । इत्यनेन 'महक्खंधो महखंधो' इत्युभयरूपं भवति । ३. 'सासादन' इत्यपि पाठ: ।