Book Title: Padarth Prakash Part 15
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text
________________
श्रीपुद्गलपरावर्तस्तोत्रम्
असंखिज्जा ॥ ५५ ॥' (नन्दीसूत्रम् ) तेभ्योऽपि पृथ्व्यादिप्रविश्यमानजीवेभ्यः सूक्ष्माग्निकाये ये पूर्वप्रविष्टाः पृथ्व्यादयो जीवाः सन्ति ते जीवाः असङ्ख्यातगुणेनाधिकाः, सूक्ष्माग्निकायानां कार्यस्थितिरसङ्ख्यातकालं यावदग्नौ वह्निकाये उत्पद्यते पुनर्मृत्युः पुनरुत्पत्तिरेवमसङ्ख्यातकालं यावद् ज्ञेयम्, अग्निकायेभ्योऽसङ्ख्यातगुणेनाधिका । संयमस्थानानि तेभ्योपि । संयमस्थानानि नानाजीवानाश्रित्य तद्भवे एकजीवमाश्रित्य वा संयमपरिणामाः-संयमभेदाः अनुभागबन्धस्थानानि च प्रत्येकं प्रत्येकं असङ्ख्यातगुणेनाधिकानि । संयमपरिणामा अनुभागबन्धाश्च तुल्या भवन्ति । अष्टानां कर्मपरमाणूनां ये रसभेदास्तेऽसङ्ख्याता वर्त्तन्ते, तान् कर्मपुद्गलरसविशेषान् बद्ध्वा बद्ध्वा - स्पृष्ट्वा स्पृष्ट्वा मुञ्चति क्रमोत्क्रमेण तदा बादरो भावेन पुद्गलपरावर्त्तः ॥ ९ ॥ एकरसभेदं स्पृष्ट्वा तदनु द्वितीयं इति क्रमेणाष्टकर्मपुद्गलान् सर्वान् क्रमेण मरणेन स्पृष्ट्वा स्पृष्ट्वा मुञ्चति तदा भावतः सूक्ष्मपुद्गलपरावर्त्तः ॥ १० ॥ हे नाथ ! अशं - असुखं कियत् बाढं न ऊढवान्-प्राप्तवान्, किं कृत्वा ? अनेके पुद्गलाः- कालविशेषास्तै: पुद्गलानां परमाणूनामावलय: (तासां परावर्त्तान् पूरं पूरं पूरयन् पूरयन्) दृष्ट्वा दृष्टचरं त्वां प्रभो ! प्रार्थयामि, तस्माद् दुःखान्मोचय मां श्रेयः श्रियं प्रापय ॥ ११॥
॥ इति पुद्गलपरावर्त्तस्तोत्रस्याऽवचूरिः समाप्ता ॥
૧૭૭

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262