SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ श्रीपुद्गलपरावर्तस्तोत्रम् असंखिज्जा ॥ ५५ ॥' (नन्दीसूत्रम् ) तेभ्योऽपि पृथ्व्यादिप्रविश्यमानजीवेभ्यः सूक्ष्माग्निकाये ये पूर्वप्रविष्टाः पृथ्व्यादयो जीवाः सन्ति ते जीवाः असङ्ख्यातगुणेनाधिकाः, सूक्ष्माग्निकायानां कार्यस्थितिरसङ्ख्यातकालं यावदग्नौ वह्निकाये उत्पद्यते पुनर्मृत्युः पुनरुत्पत्तिरेवमसङ्ख्यातकालं यावद् ज्ञेयम्, अग्निकायेभ्योऽसङ्ख्यातगुणेनाधिका । संयमस्थानानि तेभ्योपि । संयमस्थानानि नानाजीवानाश्रित्य तद्भवे एकजीवमाश्रित्य वा संयमपरिणामाः-संयमभेदाः अनुभागबन्धस्थानानि च प्रत्येकं प्रत्येकं असङ्ख्यातगुणेनाधिकानि । संयमपरिणामा अनुभागबन्धाश्च तुल्या भवन्ति । अष्टानां कर्मपरमाणूनां ये रसभेदास्तेऽसङ्ख्याता वर्त्तन्ते, तान् कर्मपुद्गलरसविशेषान् बद्ध्वा बद्ध्वा - स्पृष्ट्वा स्पृष्ट्वा मुञ्चति क्रमोत्क्रमेण तदा बादरो भावेन पुद्गलपरावर्त्तः ॥ ९ ॥ एकरसभेदं स्पृष्ट्वा तदनु द्वितीयं इति क्रमेणाष्टकर्मपुद्गलान् सर्वान् क्रमेण मरणेन स्पृष्ट्वा स्पृष्ट्वा मुञ्चति तदा भावतः सूक्ष्मपुद्गलपरावर्त्तः ॥ १० ॥ हे नाथ ! अशं - असुखं कियत् बाढं न ऊढवान्-प्राप्तवान्, किं कृत्वा ? अनेके पुद्गलाः- कालविशेषास्तै: पुद्गलानां परमाणूनामावलय: (तासां परावर्त्तान् पूरं पूरं पूरयन् पूरयन्) दृष्ट्वा दृष्टचरं त्वां प्रभो ! प्रार्थयामि, तस्माद् दुःखान्मोचय मां श्रेयः श्रियं प्रापय ॥ ११॥ ॥ इति पुद्गलपरावर्त्तस्तोत्रस्याऽवचूरिः समाप्ता ॥ ૧૭૭
SR No.023388
Book TitlePadarth Prakash Part 15
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages262
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy