SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १७६ श्रीपुद्गलपरावर्तस्तोत्रम् अवचूरिः - निःशेषाः यावन्तश्चतुर्दशरज्ज्वात्मके लोके समस्ताकाशप्रदेशाः सन्ति तावन्त आत्मा मरणेन कृत्वा क्रमेणोत्क्रमेण वा स्पृशति तदा स्थूलः क्षेत्रतः पुद्गलपरावर्त्तः स्यात् ॥ ५ ॥ यदाऽऽत्मा चतुर्दशरज्जुषु यावन्त आकाशप्रदेशाः सन्ति तान् क्रमेण मृत्युना स्पृशति यावता कालेन तावता कालेन सूक्ष्मः क्षेत्रतः पुद्गलापरावर्त्तः ॥६॥ उत्सर्पिण्यवसर्पिण्योः यावन्तः समयास्तान् मरणैः क्रमाक्रमाभ्यां स्पृशतो जीवस्य कालतः स्थूलपुद्गलपरावर्त्तः ॥ ७ ॥ क्रमतः कश्चन जीवोऽवसर्पिण्युत्सपिण्योः प्रथमसमये मृतः ततोऽवसर्पिण्युत्सर्पिण्योर्द्वितीये समये यावता कालेन म्रियते ते समया लेखके गण्यन्ते नान्ये, एवमग्रिमावसर्पिण्युत्सर्पिण्योर्द्वयोरपि समयान् क्रमेण स्पृशति मरणैस्तदा सूक्ष्मः कालतः पुद्गलपरावर्त्तः ॥ ८ ॥ अनुभागबन्धहेतून्, समस्तलोकाभ्रदेशपरिसङ्ख्यान् । म्रियते क्रमोत्क्रमाश्यां, भावे स्थूलस्तदावर्त्तः॥९॥ प्राग मरणैः सर्वेषा-मपि तेषां यः क्रमेण संश्लेषः । भावे मे सूक्ष्मोऽभूज्जिनेश ! विश्वत्रयाधीश ! ॥१०॥ नानापुद्गलपुद्गलावलिपरावर्त्ताननन्तानहं, पूरं पूरमियच्चिरं कियद्दशं बाढं दृढं नोढवान् । दृष्ट्वा दृष्टचरं भवन्तमधुना भक्त्याऽर्थयामि प्रभो ! तस्मान्मोचय रोचय स्वचरणं श्रेयःश्रियं प्रापय ॥११॥ ॥इति पुद्गलपरावर्तस्तोत्रं सम्पूर्णम् ॥ अवचूरिः- सूक्ष्माग्निकायेषु ये पृथ्व्यादयो जीवाः प्रविश्यमाना एकस्मिन् समये सन्ति ते असङ्ख्याताः, क इव? चतुर्दशरज्जुगताकाशप्रदेशतुल्यास्ते जीवाः ज्ञेया, यतः ‘एगसमयंमि (अंगुलंमि) लोए, सुहुमा जीवा अ जे भविस्संति । ते हंत संत लोए, पएसतुल्ला असंखिज्जा ॥१॥' एकस्मिन्नङ्गुलभूम्यां असङ्ख्याता आकाशप्रदेशा ज्ञेयाः, 'सुहुमो य होइ कालो, एत्तो य सुहुमयरं हवइ खित्तं । अंगुलसेढीमित्ते, उस्सप्पिणओ
SR No.023388
Book TitlePadarth Prakash Part 15
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages262
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy