________________
૧૭૫
श्रीपुद्गलपरावर्तस्तोत्रम् भ्रान्तः-एकस्माद् भवात् द्वितीयादिभवेषु प्राप्तः, किंविशिष्टः सन् ? भवरङ्गसङ्गतो भवः-संसारः स एव रङ्गो-नाट्यस्थानं तत्र सङ्गतः-स्थितः, कस्मात् ? मोहप्ररोहरोहात् मोहो-अज्ञानं स एव प्ररोहो-अङ्करस्तस्य रोहोवृद्धिस्तस्मात्, क इव? नट इव, कियन्तं कालं भ्रान्तः ? अनन्तानन्तं कालं सिद्धान्तभाषया सर्षपभृच्चतुष्पल्यदृष्टान्तेनानन्तं ज्ञेयं अनन्तादनन्तं अनन्तानन्तं एतावन्तं कालं भ्रान्तः, किम्भूतः ? पृथ्व्यादिषु षट्सु कायेषु कृतः कायःशरीरं येन स इति ॥ २ ॥ औदारिकपुद्गलपरावर्त्तश्चतुर्की द्रव्यतः क्षेत्रतः कालतः भावतः, एकैकोपि द्विविधः सूक्ष्मबादरभेदतः, औदारिकेन वैक्रियेण तैजसेन भाषया आनप्राणेन चित्तैर्वा कार्मणेन वा सर्वान् अणून् चतुर्दशरज्जुगतपुद्गलपरमाणून् आत्मा औदारिकादिसप्तकेन यदा स्पृशति तदा द्रव्यतः स्थूलपुद्गलपरावर्त्तः ॥ ३॥ यदौदारिकसप्तकमध्यात् एकैकत्वेन सर्वान् परमाणून् आत्मा संस्पृशन् मुञ्चति तदा पुद्गलपरावतः सूक्ष्मः इति चतुर्थश्लोकार्थः पुनरप्येतौ प्रकारान्तरेण सिद्धान्तविभाषयोच्येतेप्रस्तावापन्नत्वात् शरीरचतुष्टयेन सर्वान् लोकपरमाणून् क्रमोत्क्रमाभ्यां संस्पृशन् मुञ्चति तदा द्रव्यतः स्थूलपुद्गलपरावर्त्तः, औदारिकशरीरचतुष्टमध्यात् एकैकेन शरीरेण सर्वान् लोकपरमाणून् स्पृष्ट्वा स्पृष्ट्वा मुञ्चति तदा द्रव्यतः सूक्ष्मपुद्गलपरावर्त्तः ॥ ४॥ निःशेषलोकदेशान्, भवे भवे पूर्वसम्भवैर्मरणैः। स्पृशतः क्रमोत्क्रमाभ्यां, क्षेत्रे स्थूलस्तदावर्त्तः ॥५॥ प्राग् मृत्युभिः क्रमेण च, लोकाकाशप्रदेशसंस्पर्शः। मम योऽजनि स स्वामिन्, क्षेत्रे सूक्ष्मस्तदावर्त्तः ॥६॥ मम कालचक्रसमयान्, संस्पृशतोऽतीतमृत्युना नाथ ! । अक्रमतः क्रमतश्च, स्थूलः काले तदाऽऽवतः॥७॥ क्रमतस्तानेव (स्तान् वा) समयान्, प्राग्भूतैर्मृत्युभिः प्रभूतैर्मे । संस्पृशतःसूक्ष्मोऽर्हन् ! स्यात्, कालतः(कालात्) पुद्गलावर्त्तः ॥८॥