________________
૧૭૪
श्रीपुद्गलपरावर्तस्तोत्रम्
अज्ञातकर्तृकम्
॥ श्रीपुद्गलपरावर्तस्तोत्रम् ॥
॥ सावचूरिकम् ॥
श्रीवीतरागभगवंस्तव समयालोकनं विनाऽभूवन् । द्रव्ये क्षेत्रे काले, भावे मे पुद्गलावर्त्ताः ॥ १ ॥ मोहप्ररोहरोहान्नट इव भवरङ्गसङ्गतः स्वामिन् ! | कालमनन्तानन्तं, भ्रान्तः षट्कायकृतकायः ॥ २ ॥ औदारिकवैक्रियतैजसभाषानप्राणचित्तकर्मतया । सर्वाणुपरिणतेर्मे, स्थूलोऽभूत् पुद्गलावर्त्तः ॥ ३ ॥ तत्सप्तकैकैकेन च, समस्तपरमाणुपरिणतेर्यस्य । संसारे संसरतः, सूक्ष्मो मे जिन ! तदावर्त्तः ॥ ४ ॥
अवचूरि: - हे श्रीवीतराग ! हे भगवन् ! मे मम पुद्गलपरावर्त्ता अभूवन्, कस्मिन् विषये ? द्रव्यक्षेत्रकालभावविषये, कथमभूवन् ? भवतः समयालोकनं विना सर्वज्ञसिद्धान्तविचारणं विना ॥ १ ॥ हे स्वामिन् ! अहं