Book Title: Padarth Prakash Part 15
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 256
________________ श्रीसमवसरणस्तवः ૨૩૩ जिणतणुबारगुणुच्चो, समहिअजोअणपिहू असोगतरू । तयहो य देवछंदो, चउसीहासणसपयपीढा ॥ १० ॥ अवचूरि:- 'तिन्नेव गाउआई, चेईअरुक्खो जिणस्स पढमस्स । सेसाण बारसगुणो, वीरे बत्तीसय धणूणि ॥ १ ॥' वीराद् द्वादशगुण एकविंशतिर्धनुः प्रमाणो (२१) भवति केवलोऽशोकस्तदुपरि शालवृक्ष एकादश (११) धनूंषि । एवमुभयोर्मीलने द्वात्रिंशद्धनूंषि (३२) चैत्यद्रुमो भवति, वीरस्येति सम्प्रदायः । अत्र शालश्च श्रीवीरस्वामिनोऽभूत् । अन्येषां तीर्थकृतां न्यग्रोधादयः । उक्तञ्च समवाया- 'चडवीसाए तित्थयराणं चउवीसं इअरुक्खा हुत्था । तं जहा - १ णग्गोह २ सत्तिवन्ने, ३ साले ४ पिअए ५ पिअंगु ६ छत्तोहे । ७ सिरिसे अ ८ नागरुक्खे, ९ माली अ १० पिलंखुरुक्खे अ ।। १०७ । ११ तेंदुग १२ पाडलि १३ जंबू, १४ आसोत्थे खलु तहेव १५ दधिवण्णे । १६ णंदीरुक्खे १७ तिलए, १८ अंबगरुक्खे १९ असोगे अ ॥ १०८ ॥ २० चंपय २१ बउले अ तहा, २२ वेडसरुक्खे तहा य २३ धायईरुक्खे । २४ साले अ वद्धमाणस्स, चेइअरुक्खा जिणवराणं ॥ १०९ ॥ बत्तीसतिं धणूई, चेइअरुक्खो उ वद्धमाणस्स । निच्चोउगो असोगो, ओच्छन्नो सालरुक्खेणं॥११०॥ सच्छत्ता सपडागा, सवेइया तोरणेहिं उववेआ । सुरअसुरगरुलमहियाण, चेइअरुक्खा जिणवराणं ॥ १११ ॥ ' - सूत्र १५७ । इदं प्रवचनसारोद्धारे सविस्तरमभिहितमस्ति । नित्यमृतुरेव पुष्पादिकालो यस्येति नित्यर्तुकः । अवच्छन्न (न्नः) सालवृक्षेणेति वचनादशोकोपरि शालवृक्षोऽपि कथञ्चिदस्तीति ज्ञायत इति । तथाऽशोकवृक्षस्याधस्ता द्देवच्छन्दके चत्वारि सिंहासनानि सपादपीठानि ॥ १०॥ १. 'पीठकमध्ये जिनतनुद्वादशगुणोच्चः समधिकयोजनपृथुलोऽशोकवृक्षः । अस्य च जिनतनुद्वादशगुणोच्चत्वे पञ्चधनुःशतोच्चवप्रभित्तितो बहिर्निर्गमाभावेन योजनपृथुत्वं दुर्घटं परमेतदुपरिस्थाऽतितुङ्गतरशालवृक्षेण कृत्वाऽस्य योजनपृथुत्वं सम्भाव्यते । 'तदुवरि सालो समत्थविच्छिन्नो' इत्यन्यत्र प्रोक्तत्वात् । अत्र च श्रीधर्मघोषसूरिपादैरशोकशालयोरैक्यविवक्षयाऽशोकस्यैव योजनपृथुत्वमुक्तमिति सम्भाव्यते । 'उसभस्स तिन्नि गाऊ, बत्तीसधणूणि वद्धमाणस्स । सेसजिणाणमसोओ, सरीरओ बारसगुणोत्ति' इति प्रवचनसारोद्धार -

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262