Book Title: Padarth Prakash Part 15
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 257
________________ ૨૩૪ श्रीसमवसरणस्तवः तदुवरि चउ छत्ततिआ, पडिरूवतिगं तहट्ठचमरधरा । पुरओ कणयकुसेसय-ट्ठिअफालिअ-धम्मचक्कचऊ ॥११॥ अवचूरिः - तेषामुपरि चत्वारि छत्रत्रिकाणि छत्रातिच्छत्ररूपाणि । तथा प्रतिरूपत्रिकं च व्यन्तरेन्द्रकृतं प्रभुप्रभावान्मुख्यरूपतुल्यमेव भवति । तथाऽष्टौ चामरधरा भवन्ति । एकैकरूपं प्रति द्वयोर्द्वयोश्चामरधारकयोः सद्भावात् । तथा कनककुशेशयस्थितानि स्फाटिकानि धर्मचक्राणि चत्वारि सिंहासनपुरतो भवन्ति ।। ११॥ झयछत्तमयरमंगल-पंचालीदामवेइवरकलसे। पइदारं मणितोरण-तिअधूवघडी कुणंति वणा ॥१२॥ अवचूरिः - वप्रेषु प्रतिद्वारं ध्वजच्छत्रमकरमुखमङ्गलपाञ्चालीपुष्प दामवेदिपूर्णकलशान्, मणिमयतोरणत्रिकाणि, धूपघटीश्च कुर्वन्ति वानव्यन्तरा व्यन्तरसुराः ॥ १२ ॥ जोयणसहस्सदंडा, चउज्झया धम्ममाणगयसीहा । ककुभाइजुया सव्वं, माणमिणं निअनिअकरेणं ॥१३॥ अवचूरिः - धर्मध्वज १ मानध्वज २ गजध्वज ३ सिंहध्वज ४ नामानश्चत्वारो ध्वजाश्चतुर्दिक्षु चतुर्ग(चत्वारो ग)जसिंहलाञ्छिता इत्यर्थः । 'ककुभाइजुयत्ति' लघुलघुतरध्वजादियुताः । ककुप्शब्देन, घण्टिका पताकिकाधुच्यते । सर्वं चैतन्मानं निजनिजहस्तेन ॥ १३ ॥ वचनादशोकस्य जिनतनुद्वादशगुणोच्चत्वमपि प्रायिकंसम्भाव्यते। परमेतद्गाथोक्तेऽप्यशोकप्रमाणे श्रीऋषभं विनाऽपरेषां तीर्थकृतामशोकस्य योजनव्यापित्वं शालेनैव घटत इति । 'बत्तीसं धणूआइंति'।"असोगवरपायवं जिणउच्चात्ताओ बारसगुणं विउव्वइ ।" इत्यावश्यक चूर्णिवचनात् । सप्तहस्तमानात् श्रीवीरस्वामिदेहाद् द्वादशगुणीकृतः सन्नेकविंशतिर्धनूंषि भवत्यशोकस्तदुपरि एकादशधनुर्मानः शालवृक्षश्च स्यात् । उभयोर्मीलने द्वात्रिंशद्धनूंषि चैत्यद्रुमो वीरस्येति सम्प्रदायः । 'बत्तीसधणु असोगो, तदुवरि सालो समत्थविच्छिन्नो' इति । तिहुअणसिरिकुलभवणमिति यशोभद्रकृतस्तवनेऽप्येवम्।' प्रवर्तकश्रीमत्कान्तिविजयानां पुस्तकेयं पाठोऽधिक उपलभ्यते।

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262