Book Title: Padarth Prakash Part 15
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text
________________
૨૩૨
श्रीसमवसरणस्तवः
तद्यथा-चतुरस्रे बाह्यवप्रभित्तिर्योजनमध्ये न गण्यते । ततश्च बाह्यवप्रमध्यवप्रयोरन्तरं दश शतानि (१,०००) धनूंषि । द्वितीयवप्रभित्तिः शत-(१००) धनूंषि । अभ्यन्तरवप्रमध्यवप्रयोरन्तरं पञ्चदशशत (१,५००) धनुर्मानम् । अभ्यन्तरवप्रभित्तिः शत (१००) धनुर्मानम् । अभ्यन्तरवप्रात् त्रयोदशशतानि (१,३००) धनूंषि गत्वा पीठमध्यम् । एवं एतन्मीलने चतुस्सहस्राणि धषि जातानि । तथा च क्रोशद्वयं भवति । एवं यथैकत्र पार्श्वे क्रोशद्वयं भवति । तथा द्वितीयेऽपि । एवं चतुरस्रसमवसरणेऽपि योजनं मीलति स्म ॥ ६ ॥
सोवाणसहसदस कर-पिहुच्च गंतुं भुवो पढमवप्पो । तो पन्नधणुपयरो, तओ असोवाण पणसहसा ॥७॥
अवचूरिः - सोपानानि दश सहस्राणि करपृथुलानि उच्चानि च हस्तमात्रपृथुलोच्चानीत्यर्थः । 'भुवो' भूमितो गत्वा प्रथमो वप्रः । ततः पञ्चाशद् (५०) धषि प्रतरो रमणभूमिः समा भूमिरित्यर्थः । शेषं सुगमम् ॥७॥ तो बियवप्पो पन्न(ना)-धणु पयर सोवाण सहसपण तत्तो। तइओ वप्पो छस्सय-धणुइगकोसेहितो पीढं ॥८॥ ____ अवचूरिः - ततस्तृतीयो वप्रस्तस्य चान्तः षड्धनुःशतेनाधिकैकक्रोशेन प्रमितमिति गम्यम् । एक (१) क्रोशषट्शत (६००) धनुःप्रमाणमित्यर्थः । पीठं समा भूमिरस्ति ॥ ८॥
चउदार तिसोवाणं, मज्झे मणिपीढयं जिणतणुच्चं । दोधणुसय पिहु दीहं, सड्ढदुकोसेहिं धरणिअला ॥९॥
अवचूरिः-चतुर त्रिसोपानं सोपानत्रयान्वितम् । समवसरणस्य मध्ये मणिमयं पीठं जिनदेहपरिमाणेनोच्चं द्विशत (२००) धनूंषि पृथुलं दीर्घञ्च; तच्च धरणितलात् सार्द्धक्रोशद्वयेन भवति ॥ ९ ॥

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262