Book Title: Padarth Prakash Part 15
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text
________________
श्रीसमवसरणस्तवः
अवचूरिः प्रकटिताः समस्ता भावास्त्रिभुवनान्तर्वर्त्तिनः स्तम्भ कुम्भाम्भोरुहादिपदार्था येन स तथा । केवलिभावः केवलित्वं । जिनानां । यत्र स्थाने भवेत् । तस्मिन् स्थाने । शोधयन्ति । सर्वतः । महीं पृथिवीम् । आयोजनं योजनमाभिव्याप्य । 'अनिलकुमरा' वायुकुमाराः ॥ २ ॥
૨૩૦
-
वरिसंति मेहकुमरा, सुरहिजलं उउसुरा कुसुमपसरं । विरयंति वणा मणिकणग-रयणचित्तं महिअलं तो ॥ ३ ॥
अवचूरि : - मेघकुमारास्तत्र सुरभिजलं वर्षन्ति । 'उउसुरा' इति ऋतुसुराः षण्णां ऋतूनामधिष्ठातारः सुरा व्यन्तरा इत्यर्थः, कुसुमप्रसरं वर्षन्ति अधोमुखवृन्तान् पुष्पप्रकरान् कुर्वन्तीत्यर्थः । ततो 'वणा' इति वानमन्तराः, मणयश्चन्द्रकान्ताद्या:, इन्द्रनीलादीनि रत्नानि । अयम्भावः- मैणिकनकरत्त्रैश्चित्रं महीतलं रचयन्ति पीठबन्धं कुर्वन्तीत्यर्थः ॥ ३ ॥
समवसरणरचनामाह
अब्भितर मज्झ बहिं, तिवप्प मणि- रयण-कणय- - कविसीसा I रयणज्जुणरुप्पमया, वेमाणिअजोइभवणकया ॥ ४ ॥
1
अवचूरिः - अयम्भावः - अभ्यन्तरो वप्रो वैमानिककृतो रत्नमयो मणिकपिशीर्षकः । १ । मध्यमः प्राकारो ज्योतिष्ककृतोऽर्जुनसञ्ज्ञसुवर्णमयो रत्नकपिशीर्षकः । २ । बहिर्वप्रो भवनपतिकृतो रूप्यमयः कनककपिशीर्षकः 1 3 1 - 11 8 11
वट्टमि दुतीसंगुल, तित्तीसधणुपिहुल पणसयधणुच्चा । छ्द्धणुसयइगकोसं-तरा य रयणमयचउदारा ॥ ५ ॥
अवचूरिः - अथ समवसरणं द्विधा स्यात् । वृत्तं चतुरस्रं वा । तत्र वृत्ते समवसरणे वप्रत्रयभित्तयः प्रत्येकं त्रयस्त्रिंशद् (३३) धनुर्द्वात्रिंश- (३२)
१. 'महीतलं पीठबन्धरूपं कुर्वन्ति । मणिभिः कनकै रत्नैश्च विचित्रं, मणयः पञ्चवर्णा रत्नानि सामान्येन रक्तानि 'इति प्रत्यन्तरे ।

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262