Book Title: Padarth Prakash Part 15
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text
________________
श्रीसमवसरणस्तवः
૨૨૯
श्रीमत्तपागच्छनभोनभोमणि-श्रीधर्मघोषसूरिपादप्रणीतः
॥श्रीसमवसरणस्तवः ॥
॥सावचूरिकः ॥ ॥ॐ॥ थुणिमो केवलिवत्थं, वरविज्ाणंदधर्मकित्तिऽत्थं ।
देविंदैनयपयत्थं, तित्थयरं समवसरणत्थं ॥१॥ अवचूरिः - वयं थुणिमो' स्तुमः । कम् ? तीर्थङ्करं, केवलिनोऽवस्था यस्य स केवल्यवस्थस्तम् । वराः प्रधाना विद्यानन्दधर्मकीर्तिरूपा अर्था यस्य स वरविद्यानन्दधर्मकीर्त्यर्थस्तम् । अथवा किमर्थं स्तुमः? वरविद्यानन्दधर्मकीर्त्यर्थम् । पुनः कथम्भूतं ? देवेन्द्रैर्नतं यत्पदं तीर्थकरपदवीरूपं तत्र तिष्ठतीति देवेन्द्रनतपदस्थस्तम् । समवसरणे तिष्ठतीति समवसरणस्थस्तम्। अथवा समवसरणे आस्था स्थितिर्यस्य स समवसरणास्थस्तं तथा ।। १ ।। पयडिअसमत्थभावो, केवलिभावो जिणाण जत्थ भवे । सोहंति सव्वओ तहिं, महिमाजोयणमनिलकुमरा ॥२॥
१. 'विद्यानन्द' इति पदेन स्वकीयस्य ज्येष्ठगुरुभ्रातुर्विद्यानन्दसूरे माऽपि ध्वनितम् । २. 'धर्मकीर्ति' इति पदेन उपाध्यायावस्थास्थितस्यात्मनो नामाऽपि सङ्केतितम् । अस्याचार्यपदस्थस्य तु 'धर्मघोषसूरिः' इतिनामा स्तवस्यास्य विरचयिता । ३. 'देवेन्द्र' इति पदेन स्वकीयगुरोः श्रीमत्तपोगणगगनाङ्गणनभोमणिश्रीमद्देवेन्द्रसूरे माऽपि सूचितम् ।

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262