Book Title: Padarth Prakash Part 15
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 258
________________ ૨૩૫ श्रीसमवसरणस्तवः पविसिअ पुव्वाइ पहू, पयाहिणं पुव्वआसण निविट्ठो । पयपीढठवियपाओ, पणमिअतित्थो कहइ धम्मं ॥१४॥ अवचूरिः - प्रदक्षिणया प्रविश्य ‘पणमिअतित्थोत्ति' 'नमो तित्थस्स' इत्यादिजीतमर्यादया प्रणतं तीर्थं चतुर्विधः सङ्घो येन सः, प्रभोर्वाणी योजनं यावत्प्रसरति यतो वप्राणामधस्ताद्गच्छन्तो जनाः शृण्वन्ति ॥ १४ ॥ मुणि वेमाणिणि समणी, सभवणजोइवणदेविदेवतिअं। कप्पसुरनरिस्थितिअं, ठंतिग्गेयाइविदिसासु ॥१५॥ अवचूरिः - आग्नेयीनैऋतीवायवीईशानीविदिक्षु यथोक्तं सभात्रयं' यथाक्रमं पूर्वस्यां दक्षिणायां(णस्यां) पश्चिमायामुत्तरायां(रस्यां) प्रविश्य प्रदक्षिणां दत्त्वा तिष्ठति ॥ १५ ॥ चउदेवीसमणी उद्ध-ट्ठिआ निविट्ठा नरित्थिसुरसमणा । इय पण ५ सग ७ परिस सुणं-ति देसणं पढमवप्पंतो ॥१६ ॥ इय आवस्सयवित्ती-वुत्तं चुन्नीइ पुण मुणि निविट्ठा । दो वेमाणिणिसमणी, उड्डा सेसा ठिआ उ नव ॥१७॥ अवचूरिः - गाथाद्वयं स्पष्टम् । (नवरं)मुनयो निविष्टा उत्कटिकासनेनेति शेषः । वैमानिकदेवीश्रमणीद्वयमूर्ध्वस्थिताः शेषा नव सभाः स्थिता उपविष्टाः । तथा चैतयो(थयो)रक्षराणि (ण्येवम्)- "अवसेसा संजया निरइसेसिआ पुरच्छिमेणं चेव दारेणं पविसित्ता भयवंतं तिपयाहिणं काउं वंदित्ता नमो अइसेसिआणंति भणित्ता अइसेसिआणं पिट्ठओ निसीअंति । वेमाणिआ(णी) देवीओ पुरच्छिमेणं चेव दारेणं पविसित्ता भयवंतं तिपयाहिणीकरित्ता नमो तित्थस्स नमो अइसेसिआणं नमो साहूणंति १. सभवनेत्यादीनां षण्णामपि द्वितीयपादनिर्दिष्टानामैक्यात् मुन्यादिभवनदेवदेव्यादिवैमानिकसुरादिरूपं सभात्रयं तथा च त्रित्वं सभायाश्चतुष्वं त्रिकस्य चेति न विरुद्धमिति। २. न लभ्यतेऽयं पाठोऽनेकेषु दृश्यमानेष्वादशेषु, परं प्रवर्तकश्रीमत्कान्तिविजयानां पुस्तके उपलभ्यते स च सोपयोगत्वादादृतोऽत्र ।

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262