Book Title: Padarth Prakash Part 15
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 261
________________ ૨૩૮ श्रीसमवसरणस्तवः स एइ अणागए लहुआ ॥१॥" तथा प्रभुः प्रथमपौरुषी संपूर्णा यावद्धर्ममाचष्टे । अत्रान्तरे बलिः प्रविशति, तं च बलि प्रक्षिप्यमाणं देवादयः सर्वेऽपि यथोचितं गृह्णन्ति, सर्वामयप्रशमनश्च सः, तेन च षण्मासान्तरे नान्यः प्रकुप्यति रोगः । बलिक्षेपादनु प्रभुराधवप्रादुत्तरेण निर्गत्येशानदिशि देवच्छन्दकमेति, गणधरश्च द्वितीयपौरुष्यां धर्ममाचष्टेऽसङ्ख्येयभवकथयिता इत्यादिविस्तरः श्रीआवश्यकादौ प्रोक्तोऽस्तीति ॥ २३ ॥ दुत्थिअसमत्थअत्थिअ-जणपत्थिअअत्थसत्थसुसमत्थो । इत्थं थुओ लहु जणं, तित्थयरो कुणउ सु(स )पयत्थं ॥ २४ ॥ ॥ इति श्रीसमवसरणस्तवः समाप्तः ॥ अवचूरिः - दुःस्थिता दुःखिता ये समस्ता अर्थिकजना याचक्लोकास्तेषां ये प्रार्थिता अर्थास्तेषां सार्थाः समूहास्तेषु समर्थः; सर्वमनोरथपूरकत्वात् । इत्थं स्तुतो लधु शीघ्रं जनं भव्यलोकंतीर्थकरः सुपदस्थं मोक्षपदस्थं स्वपदस्थं वा करोत्वित्यर्थः ॥ २४ ॥ ॥ इति श्रीसमवसरणस्तवस्यावचूरिः समाप्ता ॥ १. अधिकमिदं प्रत्यन्तरे प्रक्षिप्तप्रायं परं सोपयोगमिति दर्श्यते तद्यथा-'अथ श्रीजिनसिंहासनस्थानाद्वाह्यवप्रप्रान्तं बाह्यसोपानप्रान्तं यावद्भूमिसङ्कलनामाह-वृत्तसमवसरणे यत्र जिना उपविशन्ति तदधिष्ठितभूमेरधः समन्ताद्धनूंषि ४,००० बाह्यवप्रप्रान्तदेशो भवति, परं जिनासनभूमेरधः प्रतोलिप्रदेशो बाह्यसोपानप्रान्तं यावच्चतसृषु दिक्षु धषि ६,५०० । तथा च भमेरुपरि अलग्नं समवसरणं भवति, अतो भूमेरुपरि धनूंषि ५,००० सिहासनं जिनस्य । तत्रोपविष्टाज्जिनाद्वाह्यसोपानप्रान्तं यावद्यदा दोरिका दीयते तदा कियती करणभूमिः? धनूंषि ८,२०० कराः २१ अङ्गलानि १० एकस्मिन्पक्षे। अपरेऽप्येवमेव। तथा जिनाबाह्यवप्रकपिशीर्षकबाह्यभूमि यावद्यदा दोरिका दीयते तदा कियती करणभूमिः ? धनूंषि ६,४०० कराः ३ अङ्गुलानि ११, एवमेकस्मिन्परस्मिन्नपि एवमेव । तथा रत्नमयसर्वाभ्यन्तरवप्रस्य परिधिर्योजनं १ धनूंषि ९० हस्तः १ । स्वर्णमयमध्यवप्रस्य परिधिर्योजने २ धनुषि १२ । रूप्यमयबाह्यवप्रस्य परिधिर्योजनानि ३ धनूंषि ३२ हस्तः १ । अयमेव परिधिश्चतुरस्रसमवसरणे साधिको ज्ञेयः । यतः- 'बारसजोयण उसहउसरणं आसि नेमिजिण जाव । दो दो गाउ ऊणं पासे पण कोस चउ वीरे ॥' () अस्या गाथायाः पारम्पर्य न ज्ञायते। तथा समन्तात् जिनवाणी धनूंषि अष्टौ सहस्राणि यावत्प्रसरति । वप्राऽधस्ताद्गच्छन्तो जनाः शृण्वन्ति । इति ।'

Loading...

Page Navigation
1 ... 259 260 261 262