Book Title: Padarth Prakash Part 15
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text
________________
श्रीसमवसरणस्तवः
૨૩૭ अवचूरिः - अथ रत्नमये प्रथमवप्रे पूर्वादिद्वारचतुष्केपि क्रमेण द्वारपालदेवानां नामादिकमाह-सोम १ यम २ वरुण ३ धनदाख्याः ४ । यथाक्रमं पीतादिवर्णाः । सुरादयः । धनुर्दण्डपाशगदाहस्ता द्वारपालाः ॥१९॥ जय-विजया-ऽजिय-अपराजिअत्तिासिअ-अरुण-पीअ-नीलाभा। बीए देवी जुअला, अभयं-कुस-पास-मगरकरा ॥२०॥ तइअ बहि सुरा तुंबरु, खटुंगि-कवाल-जडमउडधारी। पुव्वाइदारवाला, तंबरुदेवो अपडिहारो ॥२१॥ सामन्नसमोसरणे, एस विही एइ जइ महिड्डिसुरो। सव्वमिणं एगोऽवि हु, स कुणइ भयणेयरसुरेसु ॥२२॥
अवचूरिः - गाथाद्वयं स्पष्टम् । 'सामन्नसमोसरणेत्ति' एष विधिः सामान्यसमवसरणे ज्ञेयः । यदि महद्धिकः कश्चिद्देव एति आगच्छति तदा स एकोऽपि सर्वमिदं करोति । यद्रीन्द्रा नागच्छन्ति तदा भवनपत्यादयः समवसरणं कुर्वन्ति वा न वा? इत्याह -'भयणेयरसुरेसुत्ति' इतरसुरेषु भजना कोऽर्थः? कुर्वन्त्यपि न कुर्वन्त्यपीत्यर्थः ॥ २० ॥ २१ ॥ ॥ २२ ॥
पुव्वमजायं जत्थ उ, जत्थेइ सुरो महिड्डिमघवाई। तत्थोसरणं नियमा, सययं पुण पाडिहेराइं ॥२३॥
अवचूरिः - यत्र च तत्तीर्थङ्करापेक्षयाऽभूतपूर्वं समवसरणं यत्र च महाद्धिको देव इन्द्रादिर्वा समेति समागच्छति तत्र समवसरणरचना नियमान्निश्चयाद्भवति । अष्टमहाप्रातिहार्यादिकं पुनः सततं भवत्येवेत्यर्थः । तथा येन च श्रमणेन समवसरणमदृष्टपूर्वं तेन तत्र द्वादशयोजनेभ्य आगन्तव्यं स्यात् । अनागमने तु तस्य चतुर्लघवः प्रायश्चित्तं भवति । तदुक्तम्-"जत्थ अपुव्वोसरणं, अदिट्ठपुव्वं च जेण समणेणं । बारसहिं जोअणेहि,
१. आदिना दक्षिणादिग्रहः । २. अनुमीयते सुरादिपदेन वैमानिकादिनिकायचतुष्टयम् ।

Page Navigation
1 ... 258 259 260 261 262