Book Title: Padarth Prakash Part 15
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 250
________________ श्रीसमवसरणस्तवः ૨ ૨૭ ॥ अर्हम् ॥ ॥ प्रस्तावना ॥ इदं समवसरणस्तवनामकं प्रकरणं केन प्रणीतमिति जिज्ञासायां प्रवर्त्तमानायाम्-स्तवस्यास्य प्रथमगाथाद्वितीयपादवर्तिना 'धम्मकीत्ति' इत्यनेन पदेन ग्रन्थकृतात्मन उपाध्यायावस्थास्थस्य धर्मकीर्तिरिति नाम प्रकटितम् । अत उपाध्यायपदस्थैरेभिरेष निबन्धो निबद्ध इति प्रतीयते । एषामेवाचार्यावस्थायां श्रीधर्मघोषसूरिरिति नामासीत् । तत्तु सहस्रावधानविधानविस्मायितविविधविबुधजनसङ्घातसंसर्गसंश्लाघितानेकनूतनग्रन्थरचनापटुतरप्रतिभसूरिपुरन्दरश्रीमन्मुनिसुन्दरसूरिपादप्रणीतगुर्वावल्यां सङ्घाचारभाष्यादौ च स्फुटमेव । अपरञ्च स्तवस्यास्यावचूरिप्रणेतुर्दशमगाथाऽवचूर्यां "अत्र च धर्मघोषसूरिपादैरशोकशालयोरैक्य विवक्षयाऽशोकस्यैव योजनपृथुत्वमुक्तमिति सम्भाव्यते" इत्युल्लेखेनापि स्तवस्यास्य प्रणेतारः श्रीधर्मघोषसूरिपादा एवेति निश्चीयते । अत: स श्रीधर्मकीतिरेवायं श्रीधर्मघोषसूरिॉ विक्रमार्कीयद्व्युत्तरत्रयोदशशत(१३०२)तमेऽब्दे सञ्जातदीक्षस्य स्वज्येष्ठसोदरस्य विद्यानन्दमुनेर्दीक्षानन्तरं धर्मकीर्तिरिति नाम्ना दीक्षां गृहीतवान्; विक्रमार्कीयत्रयोविंशत्यधिकत्रयोदशशत(१३२३)तमे वर्ष उपाध्यायपदम्, अष्टाविंशत्यधिकत्रयोदशशत(१३२८)तमे च संवत्सरे सूरिपदमभूषयत् । स्वर्गं च विक्रमार्कीयसप्तपञ्चाशदुत्तरत्रयोदशशत(१३५७)हायनेऽलङ्कृतवान् । इति गुर्वावलीपट्टावलीभ्यामवगम्यते । तैरेव सदयहृदयैः श्रीधर्मघोषसूरिभिश्चतुर्गतिसंसारपाशचारपरिभ्रमणप्राप्ततीव्रनरकादिदुःसह वेदनासहनोद्विग्नमनसां मन्दमतीनां भव्यसत्त्वानां यथावस्थिततत्त्वावगमाय श्रीजैनागमोदधेविप्रुषो गृहीत्वाऽनेकानि प्रकरणरत्नानि गुम्फितानि

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262