Book Title: Padarth Prakash Part 15
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 254
________________ श्रीसमवसरणस्तवः ૨૩૧ दङ्गुलपृथुला भवन्ति । तथा त्रयाणामपि वप्राणामन्तराणि उभयपान्तिर. मीलनेन एकक्रोश (१) षट्शत (६००) धनुःप्रमाणानि भवन्ति । अत्र च चतुर्विंशत्याऽङ्गुलैर्हस्तो ज्ञेयः । चतुर्हस्तैर्धनुः । धनुःसहस्रद्वयेन क्रोशः । क्रोशैश्चतुर्भिस्तु योजनम् । तथा बहिर्वर्तीनि सोपानानि दशसहस्र-(१०,०००) मितानी योजनमध्ये न गण्यन्ते । ततः प्रथमवप्रादग्रे पञ्चाशद् (५०) धनुः प्रतरः । ततोऽग्रे पञ्चसहस्र (५,०००) सोपानानि तेषां च हस्तमानत्वाच्चतुर्भिर्भागे लब्धानि पञ्चाशदधिकानी द्वादशशतानि (१,२५०) धनूंषि । ततो द्वितीयवप्रात् पञ्चाश (५०) द्धनुः प्रतरः, ततः पुनः पञ्चसहस्र (५,०००) सोपानानां पञ्चाशदधिकानि द्वादशशतानि धनूंषि भवन्ति । ततस्तृतीयो वप्रः । ततः त्रयोदशशतानि (१,३००) धनूंषि गत्वा पीठमध्यम् । अथ तिस्रोऽपि वप्रभित्तयः प्रत्येकं त्रयस्त्रिंशद् (३३) धनुरेक (१) हस्ताऽष्टाङ्गुल(८) पृथुला भवन्ति । तत्र सर्वेषां धनुषां मीलने नवनवत्यधिकानि एकोनचत्वरिंशच्छतानि (३,९९९) धनूंषि जातानि । तथा शेषाणि द्वात्रिंशदङ्गुलानि त्रिगुणीक्रियन्ते भित्तित्रयभावात्, षण्णवत्य (९६) ङ्गुलानि जातानि । षण्णवत्याऽङ्गुलैश्चैकं धनुर्भवति, हस्तचतुष्टयमितत्वाद्धनुषः । एवं चत्वारि सहस्राणि (४,०००) धनुषां जातानि । इत्थमेकस्मिन् पार्श्वे क्रोशद्वयमेवं द्वितीयेऽपि क्रोशद्वयमिति मीलितं वृत्तसमवसरणे योजनम् ॥५॥ चउरंसे इगधणुसय-पिहुवप्पा सड्ढकोसअंतरिया। पढमबिआ बिअतइआ, कोसंतर पुव्वमिव सेसं ॥६॥ अवचूरिः- चतुरस्रे समवसरणे वप्रत्रयभित्तयः प्रत्येकंशतधनुःपृथुला ज्ञेयाः । तथा सड'त्ति प्रथमद्वितीयवप्रयोरन्तरमुभयपार्श्वमीलनेन सार्द्धक्रोशः । 'बिअतइया'त्ति द्वितीयतृतीययोश्चान्तरमुभयपार्श्वमीलनेन क्रोशः । 'पुव्वमिव सेसं'ति शेषं मध्यभित्त्योरन्तरमेक (१) क्रोशषट्शत (६००) धनुःप्रमाणं पूर्ववद् वृत्तसमवसरणवद् ज्ञेयम् । अथात्रापि एकपार्श्वे योजनार्द्ध मील्यते । १. धनुःशतानि पञ्चदशान्तरमभ्यन्तरमध्ययोर्द्विगुणं चैतावदेवेति सामान्येन विरहय्य मध्यम् । २. अन्तरं धनुःशतानि दशेति क्रोशमानतेति विरहय्य मध्यं ज्ञेयमिदम् ।

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262