________________
૧૬૮
श्रीविचारपञ्चाशिका द्वाविंशतिर्जीवाः प्रत्येकमष्टममध्यमानन्तप्रमाणाः सन्ति । तथाप्यसत्कल्पनया पञ्चविंशतिः स्थाप्यन्ते, चत्वारश्चत्वारः कर्षणे शेष एक एव तिष्ठतीत्ययं कलिउगजुम्मः ४ । एषां जुम्मानां कार्यं सूत्रेण ज्ञातव्यम्, अत्र च स्वरूपमात्रं दर्शितमिति ॥४९॥ __ अथ पृथिव्यादीनां परिमाणमाहध-ज-व-स-परिव-बि-ति-च-समुन, पणथ-ख-ज-न-भ
व-र-वि-न-सु-स-पमुतियं । जगनभप-ध-अ-इगजिप, ट्ठिअ-नि-सि-नि-वजि-स-पु-अ
भ-अ-पर-वणका ॥५०॥ अवचूरिः - धरा १ जल २ वह्नि ३ समीरण ४ प्रत्येकवनस्पति ५ द्वीन्द्रिय ६ त्रीन्द्रिय ७ चतुरिन्द्रिय ८ सम्मूर्च्छिमनर ९ पञ्चेन्द्रियस्थलचर १० खचर ११ जलचर १२ नारक १३ भवनपति १४ व्यन्तर १५ रवि १६ विधुश्चन्द्र १७ नक्षत्र १८ सुरवैमानिक १९ समुद्र २० पञ्चेन्द्रियसम्मूर्छिमतिर्यञ्च २१ एते जीवा अमिति असङ्ख्याता ज्ञातव्याः । तथा जगन्नभःप्रदेश १ धर्मास्तिकायप्रदेश २ अधर्मास्तिकायप्रदेश ३ एकजीवप्रदेश ४ स्थित्यध्यवसायस्थान ५ निगोदा ६ एतेऽप्यसङ्ख्याता भवन्ति । तथा सिद्ध १ निगोदजीव २ वनस्पतिजीव ३ समय ४ पुद्गल ५ अभव्य ६ भव्य ७ अलोक८ परवडियापतित ९ वनस्पतिकायस्थिति (वस्तूनि) १० एतान्यनन्तानि ज्ञातव्यानीति ॥ ५० ॥
इय सुत्ताओ भणिया, वियारपंचासिया य सपरकए। मुनिसिरिआनंदविमलसूरिवराणं विणेएण ॥५१॥
॥ समाप्तेयं विचारपञ्चाशिका ॥
१. 'ऽनन्तानन्त' इत्यपि पाठः।