Book Title: Padarth Prakash Part 15
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text
________________
श्रीविचारपञ्चाशिका
૧૬૫
ननु प्रयोगपरिणामोऽप्येवंविध एव ततः क एषां विशेष: ? सत्यम्, किन्तु प्रयोगपरिणतेषु विश्रसा सत्यपि न विवक्षितेति तैरनन्तानन्ताः, तेभ्योऽपि विश्रसापरिणता अनन्तगुणा यतः परमाण्वादीनां जीवाग्रहणप्रायोग्याणामप्यनन्तत्वादिति त्रिविधा एव पुद्गलाः सर्व एव भवन्ति २ । पुद्गलेभ्योऽनन्तगुणाः समयाः । कथम् ? समयक्षेत्रे ये केचन द्रव्यपर्यायाः सन्ति, तेषामेकैकस्मिन् साम्प्रतः समयो वर्तते; एवं च साम्प्रतः समयो यस्मात्समयक्षेत्रद्रव्यपर्यवगुणो भवति, तस्मादनन्ताः समया एकैकस्मिन् समये भवन्ति। एवं च वर्तमानोऽपि समयः पुद्गलेभ्योऽनन्तगुणो भवति, एकद्रव्यस्यापि पर्यवाणामनन्तानन्तत्वात् । किञ्च न केवलमित्थं पुद्गलेभ्योऽनन्तगुणास्ते समयाः, सर्वलोकपर्यायेभ्योऽप्यनन्तगुणास्ते सम्भवन्तीति । अस्य विस्तरो ग्रन्थान्तरादवसेय इति ३ । समयेभ्यो द्रव्याणि विशेषाधिकानीति । कथम् ? अत्रोच्यते यस्मात्सर्वे च समया: प्रत्येकं द्रव्याणि शेषाणि च जीवपुद्गलधर्मास्तिकायादीनि तेष्वेव क्षिप्तानीत्यतः केवलेभ्यः समयेभ्यः सकाशात्समस्तद्रव्याणि विशेषाधिकानि भवन्ति; न सङ्ख्यातगुणादीनि समयद्रव्यापेक्षया जीवादिद्रव्याणामल्पतरत्वादिति । ननु अद्धासमयानां कस्माद्द्द्द्रव्यत्वमेवेष्यते ? समयस्कन्धापेक्षया प्रदेशार्थत्वस्यापि तेषां युज्यमानत्वात् । तथाहि - यथा स्कन्धो द्रव्यं सिद्धं, स्कन्धावयवा अपि यथा प्रदेशाः सिद्धाः, एवं समयस्कन्धवर्त्तिनः समया भवन्ति प्रदेशाश्च द्रव्यं चेति ४ । द्रव्येभ्यः प्रदेशा अनन्तगुणाः । कथम् ? उच्यते-अद्धासमयद्रव्येभ्य आकाशप्रदेशानामनन्तगुणत्वात् ५ । प्रदेशेभ्योऽनन्तगुणाः पर्यायाः । यत एकैकस्मिन्नाकाशप्रदेशे ऽनन्तानामगुरुलघुपर्यायाणां भावादिति ६ ॥ ४४ ॥
अथाप्रदेशसप्रदेशपुद्गलस्वरूपमाह
दव्वे खित्ते काले, भावे अपएसपुग्गला चउहा । सपएसावि य चउहा, अप्पबहुत्तं च एएसिं ॥ ४५ ॥
अवचूरिः - पञ्चम्यर्थे सप्तम्यत्र । अप्रदेशाः पुद्गलाः परमाणवश्चतुर्धा भवन्ति, कस्मात् ? द्रव्यत:, क्षेत्रतः, कालतः, भावतश्च । तथा सप्रदेशा अपि

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262