SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ श्रीविचारपञ्चाशिका ૧૬૫ ननु प्रयोगपरिणामोऽप्येवंविध एव ततः क एषां विशेष: ? सत्यम्, किन्तु प्रयोगपरिणतेषु विश्रसा सत्यपि न विवक्षितेति तैरनन्तानन्ताः, तेभ्योऽपि विश्रसापरिणता अनन्तगुणा यतः परमाण्वादीनां जीवाग्रहणप्रायोग्याणामप्यनन्तत्वादिति त्रिविधा एव पुद्गलाः सर्व एव भवन्ति २ । पुद्गलेभ्योऽनन्तगुणाः समयाः । कथम् ? समयक्षेत्रे ये केचन द्रव्यपर्यायाः सन्ति, तेषामेकैकस्मिन् साम्प्रतः समयो वर्तते; एवं च साम्प्रतः समयो यस्मात्समयक्षेत्रद्रव्यपर्यवगुणो भवति, तस्मादनन्ताः समया एकैकस्मिन् समये भवन्ति। एवं च वर्तमानोऽपि समयः पुद्गलेभ्योऽनन्तगुणो भवति, एकद्रव्यस्यापि पर्यवाणामनन्तानन्तत्वात् । किञ्च न केवलमित्थं पुद्गलेभ्योऽनन्तगुणास्ते समयाः, सर्वलोकपर्यायेभ्योऽप्यनन्तगुणास्ते सम्भवन्तीति । अस्य विस्तरो ग्रन्थान्तरादवसेय इति ३ । समयेभ्यो द्रव्याणि विशेषाधिकानीति । कथम् ? अत्रोच्यते यस्मात्सर्वे च समया: प्रत्येकं द्रव्याणि शेषाणि च जीवपुद्गलधर्मास्तिकायादीनि तेष्वेव क्षिप्तानीत्यतः केवलेभ्यः समयेभ्यः सकाशात्समस्तद्रव्याणि विशेषाधिकानि भवन्ति; न सङ्ख्यातगुणादीनि समयद्रव्यापेक्षया जीवादिद्रव्याणामल्पतरत्वादिति । ननु अद्धासमयानां कस्माद्द्द्द्रव्यत्वमेवेष्यते ? समयस्कन्धापेक्षया प्रदेशार्थत्वस्यापि तेषां युज्यमानत्वात् । तथाहि - यथा स्कन्धो द्रव्यं सिद्धं, स्कन्धावयवा अपि यथा प्रदेशाः सिद्धाः, एवं समयस्कन्धवर्त्तिनः समया भवन्ति प्रदेशाश्च द्रव्यं चेति ४ । द्रव्येभ्यः प्रदेशा अनन्तगुणाः । कथम् ? उच्यते-अद्धासमयद्रव्येभ्य आकाशप्रदेशानामनन्तगुणत्वात् ५ । प्रदेशेभ्योऽनन्तगुणाः पर्यायाः । यत एकैकस्मिन्नाकाशप्रदेशे ऽनन्तानामगुरुलघुपर्यायाणां भावादिति ६ ॥ ४४ ॥ अथाप्रदेशसप्रदेशपुद्गलस्वरूपमाह दव्वे खित्ते काले, भावे अपएसपुग्गला चउहा । सपएसावि य चउहा, अप्पबहुत्तं च एएसिं ॥ ४५ ॥ अवचूरिः - पञ्चम्यर्थे सप्तम्यत्र । अप्रदेशाः पुद्गलाः परमाणवश्चतुर्धा भवन्ति, कस्मात् ? द्रव्यत:, क्षेत्रतः, कालतः, भावतश्च । तथा सप्रदेशा अपि
SR No.023388
Book TitlePadarth Prakash Part 15
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages262
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy