SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ૧૬૪ श्रीविचारपञ्चाशिका एकेन्द्रियादीनामल्पबहुत्वमाहपर्ण चउँ ति दुर्य अणिंदिरों, एगिदिय सेंदिया कमा हुँति । थोवा तिअ तिअ अँहिया, दोऽणंतर्गुणा विसेसहिआ॥४२॥ तसं तेउं पुढवि जल वॉउकाय अर्काय वणस्सइ सकाया। थोवं असंखंगुणाहिय, तिन्निओ दोऽणंतगुण अहिआ॥४३॥ ___ अवचूरिः - सुगमा। नवरं सेन्द्रिया द्वीन्द्रियादयः ॥ ४२ ॥ सकायाल्पबहुत्वं यथा-सुगमा । नवरं अकायाः सिद्धाः, सकायाः सर्वे संसारस्था जन्तवः ॥ ४३॥ अथ जीवाजीवादीनामल्पबहुत्वं यथाजीवा पुग्गल समयाँ , दवं पएसा य पजवा चेव। थोवाणंताणंता, विसेसमहियाँ दुवेऽणंता ॥४४॥ अवचूरिः - जीवाः प्रत्येकमनन्तानन्तैः पुद्गलैर्बद्धाः प्रायो भवन्ति । पुद्गलाश्च जीवैः सम्बद्धा असम्बद्धाश्च भवन्ति इत्यतः स्तोकाः पुद्गलेभ्यो जीवाः १ । जीवेभ्योऽनन्तगुणाः पुद्गलाः, कथम् ? यत्तैजसादिशरीरं येन जीवेन परिगृहीतं तत्ततो जीवात्पुद्गलपरिणाममाश्रित्यानन्तगुणं भवति । तथा तैजसशरीरात्प्रदेशतोऽनन्तगुणं कार्मणम् । एवं चैते जीवप्रतिबद्धेऽनन्तगुणे, जीवविमुक्ते च ते ताभ्यामनन्तगुणे भवतः । शेषशरीरचिन्ता त्विह न कृता, यस्मात्तानि मुक्तान्यपि स्वे स्वे स्थाने तैरनन्ततमे भागे वर्तन्ते । तदेवमिह तैजसशरीरपुद्गला अपि जीवेभ्योऽनन्तगुणाः, किं पुनः कार्मणादिपुद्गलराशिसहिताः ? तथौदारिकादिपञ्चदशविधप्रयोगपरिणताः पुद्गलाः स्तोकाः, तेभ्यो मिश्रपरिणताः पुद्गलाः अनन्तगुणाः । यतः प्रयोगकृतमाकारमपरित्यजन्ति(न्तो) विश्रसया ये परिणामान्तरमुपगता मुक्तकडेवराद्यवयवरूपाः, अथवौदारिकादिवर्गणारूपा विश्रसया निष्पादिताः सन्तो ये जीवप्रयोगेणैकेन्द्रियादिशरीरप्रभृतिपरिणामान्तरमापादितास्ते मिश्रपरिणताः ।
SR No.023388
Book TitlePadarth Prakash Part 15
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages262
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy