SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ ૧૬૬ श्रीविचारपञ्चाशिका I पुद्गला द्रव्यक्षेत्रकालभावतश्चतुर्धा भवन्ति । तथैषां च पुद्गलानामप्रदेशसप्रदेशभेदभिन्नानामल्पबहुत्वं ज्ञातव्यमिति ॥ ४५ ॥ अथाप्रदेशस्वरूपमाह दव्वेणं परमाणू, खित्तेणेगप्पएसमोगाढा । कालेणेगसमइया, भावेणेगगुणवण्णाई ॥ ४६ ॥ अपएसगाओ एए, विवरिय सपएसगा सया भणिया । भा-का-द-ख- अपएसा, थोवा' तिंन्नि य असंखगुणा ॥५७॥ खित्ते अपएसगाओ, खित्ते सपएसऽसंखगुणियाओ । दैव्व-क - भा-सपएसा, विसेससहिया सुए भणिया ॥ ४८ ॥ अवचूरि : - एतेऽप्रदेशका: पुद्गला भवन्तीति सर्वत्र योज्यम् । तत्र द्रव्यत: परस्परासम्पृक्ता: परमाणवोऽप्रदेशाः पुद्गला भवन्ति १ । क्षेत्र एकनभ:प्रदेशव्यापिनोऽप्रदेशाः पुद्गला भवन्तीति २ | कालत एकसमयस्थितयोऽप्रदेशाः पुद्गला भवन्तीति ३ । भावतो वर्णादिभि: पुद्गला अप्रदेशा भवन्तीति ४ । अयमर्थः-प्रायो ये परमाणवः परस्परमसम्पृक्तास्ते द्रव्यतोऽप्रदेशाः । ये एकैकनभः प्रदेशावगाहितायां सत्यां स्वस्वक्षेत्रममुञ्चन्तः क्षेत्रतोऽप्रदेशाः पुद्गलाः । यदा यदा तु स्वस्वक्षेत्रं विमुच्य क्षेत्रान्तरेषु पुद्गलाः सञ्चरन्ति प्रतिस्थानं च समयमेकमवतिष्ठन्ते, तदा तदा कालतोऽप्रदेशाः पुद्गलाः । य एकगुणकालकैकगुणपीतकादयो वर्णतः, एकगुणसुरभिप्रभृतयो गन्धतः, एकगुणतिक्तप्रभृतयो रसतः, एकगुणरूक्षैकगुणशीता वा, एकगुणरूक्षैकगुणोष्णा वा, एकगुणस्निग्धैकगुणशीता वा, एकगुणस्निग्धैकगुणोष्णा वा, स्पर्शतश्च ते पुद्गला भावाप्रदेशा भवन्तीत्यर्थः ॥ ४६ ॥ एते पूर्वोक्ता अप्रदेशाः पुद्गला भवन्ति । विपरीताः सप्रदेशा: पुद्गलाः सदा भणिताः। अयमर्थः-ये द्व्यादिपरमाणवः परस्परं मिलितास्ते द्रव्यतः सप्रदेशाः पुद्गलाः १। ये द्व्याद्यणुकस्कन्धा द्वयादिनभ: प्रदेशावगाहिनस्ते क्षेत्रतः सप्रदेशा पुद्गला भवन्ति २ । ये द्व्यादिसमयस्थितयो यावदसङ्ख्यातसमयस्थितयस्ते सर्वे * त्रिष्वपि पुस्तकेषु - 'दकभाव - दकाभा - दव्वभा' एते पाठान्तरा दृश्यन्ते ।
SR No.023388
Book TitlePadarth Prakash Part 15
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages262
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy