Book Title: Padarth Prakash Part 15
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 185
________________ ૧૬ ૨. श्रीविचारपञ्चाशिका अवचूरिः - आहार १ शरीरे २ न्द्रियो ३ च्छ्वास ४ वचन ५ मनः ६ एताः षट् पर्याप्तयः स्युः । तत्रैकेन्द्रियाणां प्रथमाश्चतस्रः पर्याप्तयः स्युः । विकलानां द्वित्रिचतुरिन्द्रियाणां प्रथमाः पञ्च पर्याप्तयः स्युः । अमनस्कमनुष्यतिरश्चां सम्मूच्छिमपञ्चेन्द्रियमनुष्यतिरश्चां प्रथमाः पञ्च पर्याप्तयः स्युः । समनस्कानां गर्भजतिरश्चां षडपि पर्याप्तयः स्युः ॥३३॥ गर्भजमनुष्याणां नारकाणां च षट् पर्याप्तयः । तथा देवानां पञ्च पर्याप्तयः, यत्तेषां वचनमनसोर्द्वयोरपि द्वे पर्याप्ती समकालमेव स्याताम् । यदुक्तं देवानां श्रीराजप्रश्नीयो पाङ्गसूत्रे-“तेणं कालेणं तेणं समएणं सूरियाभे देवे अहुणोववण्णमित्तए चेव समाणे पंचविहाए पज्जत्तीए पज्जत्तीभावं गच्छइ । तं जहा-आहारपज्जत्तीए १ सरीरपज्जत्तीए २ इंदियपज्जत्तीए ३ आणपाणपज्जत्तीए ४ भासमणपज्जत्तीए ५ ।" (सूत्र ४१, पृ. ९७) ॥३४॥ औदारिकवैक्रियाहारकशरीराणां षण्णामपि पर्याप्तीनामारम्भः प्रारम्भो युगपत्समकालः स्यात् । ततः त्रयाणामौदारिकवैक्रियाहारकशरीराणां प्रथमा आहारपर्याप्तिरेकस्मिन् समये स्यात् । पुनद्वितीया शरीरपर्याप्तिरौदारिकवैक्रियाहारकशरीराणामान्तौहूर्तिकी स्यात् ।।३५।। औदारिकशरीरेऽग्रेतनाश्चतस्र इन्द्रिर्योच्छ्वासवचनमनःपर्याप्तयः पृथक्पृथक् असङ्ख्यात समयात्मकान्तर्मुहूर्ताः स्युः । अयमाशयः-औदारिके इन्द्रियादयश्चतस्रोऽपि पर्याप्तयः पृथक्पृथक् असङ्ख्यसमयात्मकैरन्तर्मुहूर्तेः पूर्णा भवन्तीत्यर्थः । तथा वैक्रियाहारकशरीरयोरेताश्चतस्र इन्द्रियोच्छ्वासवचनमनःपर्याप्तयः पृथक्पृथक् समयेन भवन्ति । अयम्भावः-एकसमयेनेन्द्रियपर्याप्तिः १, द्वितीयसमयेनोच्छ्वासपर्याप्तिः २, तृतीयसमयेन वचनपर्याप्तिः ३, चतुर्थसमयेन मनःपर्याप्तिः ४ ॥ ३६ ॥ सुरेषु षण्णामपि पर्याप्तीनामारम्भः प्रारम्भः समं समकालः स्यात् । तत्र प्रथमा आहारपर्याप्तिरेकसमयेन स्यात् । द्वितीया शरीरपर्याप्तिरन्तर्मुहूर्तेन भवति । तृतीयेन्द्रियपर्याप्तिरेकसमयेन स्यात् । चतुर्युच्छ्वासपर्याप्तिस्तदनन्तरमेवाग्रेतनद्वितीयसमयेन भवति । पञ्चमी वचनपर्याप्तिः षष्ठी मनःपर्याप्तिश्चैकस्मिन्नेव समये स्यातामिति । तथैताभिः स्वस्वयोग्यपर्याप्तिभिरपर्याप्ता एव ये कालं कुर्वन्ति, तेऽप्याद्यपर्याप्तित्रयं समाप्य

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262