Book Title: Padarth Prakash Part 15
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text
________________
૧૫૮
श्रीविचारपञ्चाशिका ___अवचूरिः - औदारिकस्यायुर्मानं स्थितिरूपं अन्तर्मुहूर्त लघुकं जघन्यं सगृहीतं सूत्रे प्रतिपादितम् । गुरुकमुत्कृष्टं त्रिपल्यमुक्तम् १। वैक्रियेऽथ भणिष्यामि॥१६॥ जघन्यतो दशवर्षसहस्राणि, उत्कृष्टतस्त्रयस्त्रिंशत्सागराणि। उत्तरवैक्रिये जघन्यतोऽन्तर्मुहूर्त, गुरुकं उत्कृष्टमेवं वक्ष्यमाणं जीवाभिगमे यथा ॥१७॥ नरके उत्तरवैक्रियस्योत्कृष्टकालमानमन्तर्मुहूर्त्तम्। तिर्यङ्मनुष्ययोश्चत्वार्यन्तर्मुहूर्तानि । देवेष्वर्धमास, उत्कृष्टविकुर्वणे कालः । भगवत्यां तु वायोः पञ्चेन्द्रियतिर्यङ्नराणां चोत्कर्षतोऽप्यन्तर्मुहूर्तमेवेत्युक्तम्, तत्त्वं त्वाप्तगम्यमिति २ ॥१८॥ आहारकस्य कालोऽन्तर्मुहूर्तो जघन्यत उत्कृष्टतोऽपि ३। तैजसकार्मणरूपे सर्वेषां भव्याभव्यानामनादिके भणिते, भव्ये सपर्यवसिते, अभव्यजीवेष्वपर्यवसिते गदिते ४,५ । द्वारम् ८ ॥१९॥
अथाल्पबहुत्वमाहअप्पबहुत्तं भणिमो, एगं दो वा जहन्नेणं ॥२०॥ उक्कोस नव सहस्सा, आहारसरीरगा हवंति सुए। अंतरमस्स जहन्नं, समयं छम्मास गुरु भणियं ॥२१॥ इत्तो असंख वेडेव्वियाणि, हुंति (य) सरीरगाणि जए। तत्तो असंखगुणिया, ओरालियदेहसंघाया ॥२२॥ तत्तो तेयसकम्मण, हुंति सरीराणिणंतगुणियाणि । वित्थरभेयवियारो, णेयव्वो सुयसमुद्दाओ ९ ॥२३॥
अवचूरिः- यथा सर्वस्तोकमाहारकंकादाचित्कत्वात्, यदा च सम्भवति तदा जघन्येन एकंद्वे च ॥२०॥ उत्कर्षतो नव सहस्राः, अन्तरं चास्याहारकस्य जघन्यं समयः, उत्कृष्टं षण्मासाः १ ॥२१॥ एभ्यो वैक्रियशरीराण्यसङ्ख्येयगुणानि २ । तत औदारिकदेहसङ्घाता असङ्ख्येयगुणिताः ३ ॥२२॥ तेभ्यस्तैजसकार्मणान्यनन्तानि, सर्वजीवानां प्रत्येके भावात् ४,५ । द्वारम् ९ ॥ २३ ॥

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262