Book Title: Nandanvan Kalpataru 2002 00 SrNo 08 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 9
________________ वाचकानां प्रतिभावः महेश्वरः रमानाथः द्विवेदी B.A.M.S., M.A. (संस्कृत) * जाम- वनस्थली, पीन-३६११३० दिनांक : ३०-१२-०१ भानुवासरः। पूज्यश्रीविजयशीलचन्द्रसूरिमहोदयाः, प्रणामैः सह निवेद्यते यत् - भवतः अयनपत्रस्य एकः अङ्कः अवलोकितः, पठितश्च । मनसि अतीव आनन्दः सञ्जातः । अनिलः द्विवेदी (जामनगरस्थः) मम अग्रजोऽस्ति । तस्य गृहम् एतदयनपत्रम् आगच्छति । तत्रैव अङ्कः पठितः। अहं तु चिकित्सकः अस्मि । वरणानामके ग्रामे मम चिकित्सालयः अस्ति । संस्कृतम् अतीव रोचते मह्यम् । संस्कृतं प्रति अनुरागकारणात् प्रतिदिनं किञ्चित् संस्कृतं परिचयार्थं पठामि । भवतः अयनपत्रे ये वैविध्यपूर्णाः । विभागाः सन्ति ते सर्वे नन्दनवनकल्पतरोः कुसुमानि फलानि इव प्रतिभाति । अयनपत्रीयाः अनेकाः शुभकामनाः। Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 128