Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra

View full book text
Previous | Next

Page 151
________________ विवाहप्रकरणम् । १३१ षापहारकमिति । अन्यच्च । षाष्टके गोमिथुनं प्रदद्यात्कांस्यं सरूप्यं नवपंचमेऽपि । वस्त्रं प्रदेयं कनकं च शक्त्या द्विर्द्वादशे ब्राह्मणतर्पणं चेति ॥ ३४ ॥ अथेंद्रवज्ञया पूर्वमध्यापरभागयोगीनि भान्याहपौष्णेशशक्राद्रससूर्यनंदा पूर्वार्धमध्यापरभागयुग्भम् ॥ भर्ता प्रियः प्राग्युजि भे स्त्रियाः स्यान्मध्ये द्वयोः प्रेमपरे प्रिया स्त्री ।। ३५ ॥ पौष्णेति । पौष्णावत्याः षट् भम् भानि जात्यभिप्रायमेकवचनम् । पूर्वार्धयोगीनि ज्ञेयानि आर्द्रादिद्वादश मध्यभागयोगीनि ज्ञेयानि । ज्येष्ठादीनि नव अपरभागयोगीनि ज्ञेयानि । फलमाह । भर्ता प्रिय इति । अयं भावः । राज्ञामंतः पुरस्थस्त्रीसमागमे गणिकादिसमागमे वा पूर्वार्धयुजि नक्षत्रे सति स्त्रीणां भर्ता प्रियः मध्यभागयुजि मे परस्परं प्रीतिर्भवेत् । परे परभागयुजि भे स्त्री नृणां प्रिया भवेदिति । एवं वधूवरयोर्नवसमागमेऽपि ज्ञेयमिति रत्नमालाटीकायां महादेवेनोक्तम् ॥ ३९ ॥ अथ प्राच्यसंमतं वर्गकूटमार्ययाह अकचटतपयशवर्गाः खगेशमार्जारसिंहशूनाम् ॥ सर्पानुमृगावीनां निजपंचमवैरिणामष्टौ ॥ ३६ ॥ अकचटेति ॥ अज्वर्गोऽवर्गसंज्ञकः कुचुटुतुषु इति पंचवर्गाः एको यवर्गोऽन्यः शवर्गः एवमष्टौ वर्गाः । तत्र अवर्गः खगेशस्य गरुडस्य कवर्गो मार्जारस्य चवर्गः सिंहस्य टवर्गः शुनः तवर्गः सर्पस्य पवर्ग आखोर्मूषकस्य यवर्गो मृगस्य शवर्गोऽवेर्मेषस्य । अत्र निजात् स्वस्मात् पंचमा वैरिणो येषां ते तथोक्ताः गरुडसर्पयोर्मार्जारमूषकयोः सिंहमृगयोः श्वमेषयोः परस्परं महावैरमित्यर्थः । स्त्रीपुंसयोर्नक्षत्रद्वयं भक्ष्यभक्षकवर्गे चेत्तदा अशुभम् । यदा त्वेकवर्गे तदा शुभम् । एतच्च स्वामिसेवकयोरपि विचार्यम् ॥ ३६ ॥ इदानीं नक्षत्रराश्यैक्ये विशेषं शालिन्याह राश्यैक्ये चेद्भिन्नमृक्षं द्वयोः स्यान्नक्षत्रैक्ये राशियुग्मं तथैव ॥ नाडीदोषो नो गणानां च दोषो नक्षत्रैक्ये पादभेदे शुभं स्यात् ३७ राश्यैक्ये चेदिति ॥ द्वयोर्वधूवरयोः एकराशित्वे सति यदि भिन्नमृक्षं स्यात्तदा नाडीदोषो गणानां च दोषो न स्यात् । यथा । शततारा पूर्वाभाद्रपदापादत्रयं च तथैव नक्षत्रैक्ये राशियुग्मं राशिद्वयं चेत्स्यात्तदापि प्रागुक्तो दोषो न स्यात् यथा पूर्वाभाद्रपदापादत्रयं चतुर्थचरणश्च अत्रापि विशेषमाह गर्गः । एकराशौ पृथग्विष्ण्ये पुंतारा प्रथमा भवेत् । अतीव शोभना प्रोक्ता स्त्रीतारा चेत्त्वशोभना । अथैकराशिनक्षत्रैक्ये ऽपवादमाह । Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248