Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra

View full book text
Previous | Next

Page 236
________________ २१६ मुहूर्तचिंतामणौ देवालय इति ॥ अत्र यथासंख्यं संबंधः । देवालयप्रारंभे राहुमुखं मीनार्कतस्त्रिराश्यवस्थिते सूर्ये ऐशानीतो विलोमतो विपरीतं विदिशु वायव्यादिषु राहुमुखं स्यात् । यथा मीनमेषवृषराश्यवस्थिते सूर्ये ईशान्यां राहुमुखम् । मिथुनकर्कसिंहस्थितेऽके वायव्याम् कन्यातुलावृश्चिकस्थितेऽकै नैर्ऋत्याम् धनुर्मकरकुंभस्थेऽके आग्नेय्यां राहुमुखमित्यर्थः । एवं गृहारंभेऽपि सिंहार्कतस्त्रिराश्यवस्थितेऽके विलोमत ऐशान्यां राहुमुखं स्यात् वृश्चिकादित्रिभे वायव्यां कुंभादित्रिभे नैर्ऋत्यां वृषादित्रिभे आग्नेय्यां राहुमुखमित्यर्थः । तथा जलाशयप्रारंभेऽपि मकरतस्त्रिराश्यवस्थितेऽके विलोमत ऐशान्यां राहुमुखं स्यात् । मेषादित्रिभे वायव्याम् कर्कादित्रिभे नैऋत्याम तुलादित्रिभे आग्नेय्यां राहमुखं स्यादित्यर्थः । फलमाह खात इति । देवालयादिविषयके खाते भमिशोधने कर्तव्ये सति राहमुखाक्रांतदिशः सकाशात्ष्टष्ठवर्तिनी विदिक् शुभा भवेत् । यथैशान्यां राहुमुखं तत्टष्ठदिगाग्नेयी तस्यां प्रथमखातारंभःशुभफलदः एवं वायव्यां राहुमुखं तत्प्टष्ठविदिगैशानी तस्यां खातारंभः एवं सर्वत्र । उक्तंच । ईशानतः सर्पति कालसर्पो विहाय सृष्टिं गणयेद्विदिक्षु । शेषोऽस्य वास्तोर्मुखमध्यपुच्छं त्रयं परित्यज्य खनेञ्चतुर्थम् ।। वृषार्कादित्रयं वेद्यां सिंहादिगणयेगृहे । देवालये च मीनादि तडागे' मकरादिकमिति । खातारंभादिनक्षत्राण्याह । मांडव्यः । अधोमुखै विदधीत खातं शिलास्तथैवोर्ध्वमुखैश्च पट्टम् । तिर्यङ्मुखैभरि कपाटदानं गृहप्रवेशो मृदुभिर्बुवरिति ॥ १९॥ अथ गृहे कूपनिर्माणदिगवस्थित्या फलं शालिन्याह कूपे वास्तोर्मध्यदेशेऽर्थनाशस्त्वैशान्यादौ पुष्टिरैश्वर्यवृद्धिः ॥ सूनो शः स्त्रीविनाशो मृतिश्च संपत्पीडा शत्रुतः स्याच सौख्यम् ॥२०॥ कूप इति ॥ वेश्मभूर्वास्तुरस्त्रियामिति वास्तुशब्दः पुलिंगः । वास्तोर्गृहस्य मध्यभागे कपे जलकूपे सति स्वामिनोऽर्थनाशः स्यात् अर्थशान्यादिषु सृष्टिमार्गेणाष्टदिक्षु पुष्टिरित्यादि फलं । यथैशान्यां कूपे पुष्टिः पूर्वस्यामैश्वर्यवृद्धिः आग्नेय्यां पुत्रनाशः दक्षिणस्यां स्त्रीविनाशः नैऋत्यां गृहपतेर्मृतिः पश्चिमायां संपत् वायव्यां शत्रुतः सकाशात्पीडा स्यात् उत्तरस्यां कूपे सुखं गृहस्वामिन एव । वसिष्ठः । ऐश्वर्य पुत्रहानिश्च स्त्रीनाशो निधनं भवेत् । संपच्छत्रुभयं सौख्यं पुष्टिः प्रागादितः क्रमात् ॥ कूपे कृते मध्यमे तु धनहानिर्हि वास्तुनीति । अथ कूपारंभे चक्रमाह । कूपेऽर्कभान्मध्यगतैस्त्रिभिर्भः स्वादूदकं पूर्वदिशि त्रिभिभैंः । खंडं जलं स्वादुजलं जलक्षयं स्वादूदकं क्षारजलं शिलाजलम् । क्षारं जलं मृष्टजलं क्रमाद्भवेद्वा सूर्यभात्रित्रिमितैः शुभाशुभमिति ॥ २० ॥ Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248