Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra

View full book text
Previous | Next

Page 244
________________ २२४ मुहूर्तचिंतामणी स्त्रीभिः स्रग्वी गीतवाद्यैविशेत्तदिति । अयं विधिः प्रवेशे साधारणः । कीदृशं वेश्म भकू - शुद्धं भकूटं षष्ठाष्टकादि उपलक्षणत्वाद्विवाह प्रकरणोक्तं वर्णो वश्यं तथा तारेत्यादिकं च तेनापि शुद्धम् । वसिष्ठः । राशिकूटादिकं सर्व दंपत्योरिव चितयेदिति ॥ ४ ॥ अथ वामगतार्कज्ञानं पूर्वादिमुखगृहप्रवेशं चेंद्रवंशयाह वामो रविर्मृत्युसुतार्थलाभतोऽर्के पंचभे प्राग्वदनादिमंदिरे ॥ पूर्णा तिथौ प्राग्वदने गृहे शुभो नंदादिके याम्यजलोत्तरानने ॥ ५ ॥ 1 । वामी रविरिति ॥ अष्टमपंचमद्वितीयैकादशस्थानेभ्यः पंचसु स्थानेषु स्थिते ral सति प्राग्वदनादिके मंदिरे प्रवेष्टव्ये गृहप्रवेशकर्तुर्वामो रविज्ञेयः । यथा यस्मिँल्ने गृहप्रवेशः कर्तुमिष्यते तस्मादष्टमं यत्स्थानं ततः पंचसु स्थानेष्वर्के सति पूर्वाभिमुखे गृहे प्रवेशकर्तुर्वामः सूर्यः स्यात् । तथा लग्नाद्यत्पंचमस्थानं ततः पंचसु स्थानेषु रवौ स्थिते दक्षिणाभिमुखे वामोऽर्कः । तथैव लग्नाद्यत् द्वितीयस्थानं ततः पंचसु स्थानेषु रवौ स्थिते पश्चिमाभिमुखे गृहे वामोऽर्कः । तथैव लग्नाद्यदेकादशस्थानं ततः पंचसु स्थानेषु सूर्ये स्थिते उत्तराभिमुखे गृहे प्रवेशकर्तुर्वामः सूर्य इत्यर्थः । उक्तं च । रंध्रात्पुत्राद्धनादायात्पंचस्व स्थिते क्रमात् । पूर्वाशादिमुखं गेहं विशेद्वामो भवेद्यत इति । पूर्णातिथाविति । प्राग्वदने पूर्वाभिमुखे गृहे पूर्णातिथौ पंचम्यां दशम्यां पूर्णिमायां वा प्रवेश: नंदादिके तिथिगणे याम्यजलोत्तरानने गृहे प्रवेशः शुभः । यथा । दक्षिणाभिमुखे गेहे नंदायां प्रतिपदि षष्ठ्यामेकादश्यां वा प्रवेशः शुभः । जलं पश्चिमादिक् तद्दिङ्मुखे गृहे भद्रायां द्वितीयायां सप्तम्यां द्वादश्यां वा प्रवेशः शुभः । उत्तराभिमुखे गृहे जयायां तृतीयायामष्टम्यां त्रयोदश्यां वा प्रवेशः शुभः । गुरुः नंदायां दक्षिणद्वारं भद्रायां पश्चिमामुखं जयायामुत्तरद्वारं पूर्णायां पूर्वतो विशेत् इति ॥ ९ ॥ 1 अथ गृहप्रवेशे कलशवास्तुचक्रं शार्दूलविक्रीडितेनाह वक्रे भूरविभात्प्रवेशसमये कुंभेऽग्निदाहः कृताः प्राच्यामुद्रसनं कृता यमगता लाभः कृताः पश्चिमे ॥ श्रीर्वेदाः कलिरुत्तरे युगमिता गर्ने विनाशो गुदे रामाः स्थैर्यमतः स्थिरत्वमनलाः कंठे भवेत्सर्वदा ॥ ६ ॥ व भूरिति । गृहप्रवेशसमय इति सर्वत्रापि संबध्यते । कुंभे कलशाकृतिवास्तौ रविभात् सूर्याक्रांतनक्षत्रात् ल्यब्लोपे पंचमी । रविभमारभ्य कलशस्य मुखे भूरेकं सूर्याकांतनक्षत्रमेव स्थाप्यम् तत्फलं गृहस्याग्निदाहः ततः सूर्यभात्कृताः अग्रिमाणि चत्वारि भा प्राच्यां स्थाप्यानि फलमुद्वसनं जनवासशून्यं गृहं स्यात् ततः कृता यमगताः तदनिमाणि चत्वारि भानि दक्षिणे स्थाप्यानि फलं गृहपतेर्लाभः द्रव्यप्राप्तिः ततः कृताः पश्चिमे Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248