Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra
View full book text
________________
गृहप्रवेशप्रकरणम् ।
२२५ तदग्रिमाणि चत्वारि भानि पश्चिमायां स्थाप्यानि फलं गृहपतेः श्रीप्राप्तिः ततो वेदा उत्तरे तदग्रिमाणि चत्वारि भानि उत्तरस्यां स्थाप्यानि फलं कलिः लोकैः सह गृहसंबंधी निरर्थको वादः झकटः स्यात् । ततो युगमितास्तदग्रिमाणि चत्वारि भानि गर्भ कलशमध्ये स्थाप्यानि फलं विनाशो गर्भस्यैवेत्यर्थः । ततो रामास्तदग्रिमाणि त्रीणि भानि गुदे बध्ने स्थाप्यानि फलं स्थैर्य गृहपतेबहुकालं तत्र निवासः। ततोऽनलास्तदग्रिमाणि त्रीणि भानि कंठे स्थाप्यानि फलं स्थिरत्वं गृहपतेर्भवेत् । एवमभिहितानि सप्तविंशति भानि स्युः । ज्योतिःप्रकाशे भूर्वेदपंचकं त्रिस्त्रिः १, ४,४,४,४,४,३,३ प्रवेशे कलशेऽर्कभात् । मृतितिर्धनं श्रीः स्याद्वैरं शुक् स्थिरता सुखमिति । अत्र कलशचक्रे शुभफलस्थाने याते सत्येव विहितनक्षत्राणां परिग्रहो युक्तस्तत्रापि यदिङ्मुखे प्रवेशे विधित्सिते तद्दिङ्मुखनक्षत्रपरिग्रहः। यथा पूर्वस्यां प्रवेशे विधित्सिते रोहिणी मृगो वा ग्राह्यः दक्षिणमुखग्रहप्रवेशे उत्तराफाल्गुनी चित्रे एवंपश्चिमाभिमुखे अनुराधोत्तराषाढे एवं उत्तराभिमुखे उत्तराभाद्रपदारेवत्यौ ग्राह्ये इति निष्कृष्टोऽर्थः । अत एवोक्तं वसिष्ठेन । यदिग्द्वारं मंदिरं तद्दिगृक्षैरुक्तक्षैः स्यात्सन्निवेशो न सर्वैरिति । तद्दिगृक्षैरिति उक्तःरिति वानयोः सामानाधिकरण्येनान्वयः भिन्नवाक्ये तु चकारः कर्तव्यः स्यात् अतएव अर्कानिलेयादितिदत्रविष्णुऋक्षे प्रविष्टं नवमंदिरं यत् । अब्दत्रयात्तत्परहस्तमेति शेषेषु धिष्ण्येषु च मृत्युदं स्यादिति निषेधोऽप्युपपन्नो भवति ॥ ६॥
अथ गृहप्रकरणप्रवंशोपसंहारं सूचयन्प्रवेशोत्तरकालीनकर्तव्यविधिमुपजात्याहएवं सुलग्ने स्वगृहं प्रविश्य वितानपुष्पश्रुतिघोषयुक्तम् ।। शिल्पज्ञदैवज्ञविधिज्ञपौरान राजार्चयेद्भूमिहिरण्यवस्त्रैः॥७॥ इति श्रीदैवज्ञ० मुहूर्तचिंतामणौ० त्रयोदशं गृहप्रवेशप्रकरणं समाप्तम् ॥ १३ ॥
एवं सुलग्न इति ॥ एवं प्रागुक्तप्रकारेण विचारिते सुलग्ने शोभनगुणयुते स्थिरराश्यादिके राजा वितानपुष्पश्रुतिघोषयुक्तं वितानानि सुवस्त्रमंडपाः पुष्पाणि खकालर्तुजानि मालत्यादीनि श्रुतिघोषो वेदध्वनिश्चतैर्युक्तं उपलक्षणत्वात्तोरणाद्यनेकमांगल्यवस्तुसहितमेतादृशं स्वसत्ताकं गृहं प्रविश्य पश्चात् शिल्पज्ञान् गृहोत्थापकान् स्थपतिवर्धक्यादीन् दैवज्ञान ज्योतिर्विदः विधिज्ञान् वास्तुपूजाभूतबलिगृहप्रवेशविधिज्ञान पुरोहितप्रभृतीन् पौरान् नागरिकान् पंडितदीनानाथांधकृपणांश्च भूमिहिरण्यवस्त्रैर्यथाशक्त्या व्यस्तैः समस्तैर्वा उपलक्षणत्वादश्वादिभिर्वा अर्चयेत्पूजयेत् । अत्र विशेषमाह वसिष्ठः । यहास्तुपूजारहितं त्वदत्तबलिं त्वनाच्छन्नगृहं विरूपम् । कपाटहीनं न विशेद्यतस्तत्सर्वाऽपदामालयमेव तत्स्यादिति । तस्मात् कपाटमुपरिष्टादाच्छादितं कृतवास्तुपूजं दत्तबलिमेव गृहं प्रविशेत् । प्रवेशो
Aho ! Shrutgyanam

Page Navigation
1 ... 243 244 245 246 247 248