Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra

View full book text
Previous | Next

Page 246
________________ २२६ मुहूर्तचिंतामणौ तरविधिमाह श्रीपतिः । ततो नृपो विप्रसुहृत्पुरोधसः शिल्पज्ञभूगोलविदश्च लिंगिनः ।। नैश्च रत्नैः पशुभिः समर्चयन् सदांधदीनान्पुरवासिनस्तथेति ॥ ७ ॥ इति श्रीदैवज्ञानंतसुतदैवज्ञरामविरचितायां स्वरूतमुहूर्तचिंतामणिटीकायां प्रमिताक्षरायां गृहप्रवेशप्रकरणं समाप्तम् ॥ अथ ग्रंथसमाप्तौ पितामहवर्णनं शार्दूलविक्रीडितेनाह आसीद्धर्मपुरे षडंगनिगमाध्येतद्विजैर्मडिते ज्योति-. वित्तिलकः फणींद्ररचिते भाष्ये कृतातिश्रमः॥ तत्तज्जातकसंहितागाणितकृन्मान्यो महाभूभुजां तर्कालंकृतिवेदवाक्यविलसहुद्धिः स चिंतामणिः ॥१॥ आसीदिति ॥धर्मपुरे नर्मदातीरग्रामविशेषे प्रसिद्धश्चितामणिरासीत् । किंभूते धर्मपुरे षडंगानि शिक्षादीनि तानि विद्यते यस्य एतादृशो यो निगमो वेदस्तस्याध्येतारो ये द्विजा ब्राह्मणादयस्तैमैडिते भूषिते । कीदृशश्चितामणिः ज्योतिर्वित्सु तिलक इव ज्योतिवित्तिलकः ज्योतिर्विच्छेष्ठ इत्यर्थः । पुनः कीदृशः फणींद्रः शेषनागः तद्रचिते भाष्ये महाभाष्ये कृतोऽतिश्रमोऽत्यभ्यासो येन । पुनः कीदृशश्चितामणिः तत्तज्जातकसंहितागणितकृत तानि तानि स्वल्पबृहदादिभेदेनानेकविधजातकानि जातकशास्त्राणि संहिताः संहिताशास्त्राणि गणितानि गणितशास्त्राणि करोति तादृशः । पुनः कीदृशः महाभूभुजां मान्यः पूज्यः । पुनः कीदृशः तकोलंकृतिवेदवाक्यविलसद्बुद्धिः तर्कों न्यायशास्त्रं अलंकृतिः अलंकारशास्त्रम् वेदवाक्यं वेदवाक्यविचारप्रतिपादको ग्रंथो मीमांसाशास्त्रं वेदांतशास्त्रं च तेषु विलसतीति विलासयुक्ता बुद्धिर्यस्य सः ॥ १॥ अथ क्रमप्राप्तं तातवर्णनं तेनैव रत्तेनाह ज्योतिर्विद्गणवंदितांघ्रिकमलस्तत्सूनुरासीत्कृती नाम्नाऽनंत इति प्रथांमधिगतो भूमंडलाहस्करः ।। यो रम्यां जनिपद्धति समकरोढुष्टाशयध्वंसिनी टीकां चोत्तमकामधेनुगणितेऽकार्षीत्सतां प्रीतये ॥२॥ ज्योतिर्विदिति ॥ तत्सूनुस्तस्य चिंतामणिदैवज्ञस्य सूनुः पुत्रोऽनंत इति नाम्न प्रथां ख्यातिमधिगतः प्राप्त आसीत् । कीदृशः ज्योतिर्विद्गणवंदितांधिकमलः ज्योतिर्विदा गणेन समूहेन वंदितं चरणकमलं यस्य सः । पुनः कीदृशः भूमंडलेऽहस्कर इव अध्यापनद्वारा प्रकाशक इत्यर्थः । पुनः कीदृशः कृती कुशलः ग्रंथकरणसमर्थ इति शेषः ग्रंथकर्तृत्वमेवोत्तरार्धेन प्रकाशयति यो रम्यामिति । जनिपद्धति जातकपद्धतिं दुष्टाशयध्वंसिनी Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 244 245 246 247 248