Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra
View full book text
________________
मुहूर्तचिंतामणौ
२१४ नम् । सर्वे शुभग्रहाः केंद्रे पापाश्च त्रिषडायगाः । शुभांशे शुभसंदृष्टौ सूतिकावेशनं शुभमिति ॥ १५ ॥
अथ प्रागभिहितानां सौराणां चांद्राणां मासानां प्रकारांतरेणैकवाक्यतां शार्दूलविक्रीडितेनाह-.
कैश्चिन्मेषरवौ मधौ वृषभगे ज्येष्ठे शुचौ कर्कटे भाद्रे सिंहगते धटेऽश्वयुजि चोर्जे लौ मृगे पौषके ॥ माघे नक्रघटे शुभं निगदितं गेहं तथोर्जे न सत्कन्यायां
च तथा धनुष्यपि न सत्कृष्णादिमासाद्भवेत् ॥ १६ ॥ कैश्चिदिति ॥ पूर्व दिग्द्वारवशेनैकवाक्यतोक्ता इदानीं मेषस्थे रवौ मधौ चैत्रमासे गेहं प्रारब्धं शुभं स्यात् । तथा वृषस्थे सूर्य ज्येष्ठमासे कर्कस्थेऽके शुचावाषाढे सिंहगतेऽके भाद्रपदे मासि धटे तुलास्थे रवौ अश्वयुज्याश्विने मासे अलौ वृश्चिकस्थेऽके उर्जे कातिकमासे मृगे मकरस्थेऽके पौषमासे नक्रघटे मकरकुंभेऽके माथे प्रारब्धं गृहं शमं स्यादित्यर्थ इति कैश्चिन्निगदितम् । अनेन मेषेऽके चैत्रेऽपि शुभं गृहं यस्तु चैत्रनिषेधः स मीनाकविषयः वृषस्थेऽके ज्येष्ठेऽपि शुभम् यस्तु ज्येष्ठनिषेधः स मिथुनार्कविषयः कर्कस्थेऽके आषाढेऽपि शुभम् आषाढनिषेधस्तु मिथुनार्कविषयः सिंहे ऽके भाद्रेपि शुभम् भाद्रनिषेधस्तु कन्याविषयः श्रावणस्तु तत्र विहितत्वादेव शुभः तुलास्थेऽकै आश्विनेऽपि शुभं । अस्य निषेधः कन्यापरः वृश्चिकेऽके कार्तिकेऽपि शुभं निषेधविषयं वयमेव वक्ष्यति मार्गशीर्षस्तु विहित एव मकरस्थेऽके पौषेऽपि शुभं धनुरकसाहित्ये सोऽप्यशुभः मकरकुंभस्थेऽके माघेऽपि शुभम् निषधेस्तु धनुरर्कविषयः अतएव । सौम्यफाल्गुनवैशाखमाघश्रावणकार्तिकाः। मासाः स्युर्गृहनिर्माणे पुत्रारोग्यधनप्रदा इति नारदवाक्यम् । मासे तपस्ये तपसि माधवे नभसि त्विषे । ऊर्जे च गृहनिर्माणं पुत्रपौत्रप्रवर्धनमिति वसिष्ठवाक्यं च आश्विनकार्तिकमाघानां शुभत्वप्रतिपादकं तुलावृश्चिकमकरकुंभार्कराहित्ये प्राशस्त्यपरं वचनांतरैरबोधि तन्निषेधः प्रागुक्तविषय एव । एवं फाल्गुनस्य शुभत्वं कुंभार्कविषयम् कुंभार्कराहित्ये तु निषिद्धम् ननु कार्तिकमाघमासौ श्रीपतिना निषिद्वौ तयोः को विषय इत्यत आह । अथेति । ऊर्जः कार्तिको मासः कन्यागतेऽके न सत् न शुभः । च पुनः तथा माघमासः धनुष्यपि धनुरकै न सत् । नन्वेतदयुक्तम्। यतः शुक्लादिचांद्रमासे चैत्रादिमाससंज्ञाः संति तत्र कार्तिके कन्यासंक्रांतिमासे धनुःसंक्रांतिश्च कदापि न संभवति अत आह । कृष्णादिमासादिति । मासो द्विविधः शुक्लादिः कृष्णादिश्च तत्र चैत्रशुक्लप्रतिपदमारभ्यामावास्यापर्यंत शुक्लादिः। कृष्णप्रतिपदमारभ्य पूर्णिमापर्यंतं कृष्णादिः उभयत्रापि शास्त्रे व्यवहारः । आश्वयुकृष्णपक्षे तु, श्राद्धं कुर्यादिने दिने इति । मासि भाद्रपदेऽष्टम्यां कृष्णपक्षेऽर्धरात्रके । भवेत्नोष्ठपदे मासि ज
Aho ! Shrutgyanam

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248