Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra

View full book text
Previous | Next

Page 240
________________ २२० मुहूर्तचिंतामणौ देहल्यां गुणतिर्ग्रहपतेमध्यस्थितैर्वेदभैः सौख्यं चक्रमिदं विलोक्य सुधिया द्वारं विधेयं शुभम् ॥२९॥ इति मुहूर्तचिंतामणौ वास्तुप्रकरणं समाप्तम् ॥ सूर्यादिति ॥ सूर्याधिष्ठितनक्षत्रात् युगभैश्चतुर्भिर्नक्षत्रैः शिरसि उपरि अवस्थितैः फलं कर्तुर्लक्ष्मीप्राप्तिः स्यात् ततः । नागभैः अष्टभिः कोणगैः कोणेष्ववस्थितैः उद्वसनं जनावासरहितं स्यात् तदअभैर्गजमितैरष्टमितैरशाखास्थितैहखामिनः सौख्यं स्यात् तदनिमः गुणभैस्त्रिभिर्नक्षत्रैर्दैहल्यामवस्थितैर्गृहस्वामिनो मृतिः स्यात् ततस्तदग्रिमैवेदभैश्चतुर्भिर्नक्षत्रैः मध्यरूपे अवकाशे स्थितैः सौख्यं स्यात् फलितार्थमाह । चक्रमिति । इदं चक्रं विलोक्य सुधिया शुभं शुभफलदं द्वारं विधेयं कर्तव्यमिति अनेनोपसंहरति ॥ २९ ॥ इति मुहूर्तचिंतामणिटीकायां प्रमिताक्षरायां द्वादशं वास्तुप्रकरणं समाप्तम् ॥ ॥अथ गृहप्रवेशप्रकरणप्रारंभः॥ अथ गृहप्रवेशप्रकरणं व्याख्यायते । तत्र प्रवेशश्चतुर्धा । अपूर्वप्रवेशः सपूर्वप्रवेशः ईहाभयप्रवेशः वधूप्रवेशश्चेति । तत्र वधूप्रवेशस्यान्वर्थसंज्ञकत्वाल्लक्षणं नोक्तम् स च प्रागभिहितः । अन्येषां लक्षणमाह वसिष्ठः । अपूर्वसंज्ञः प्रथमप्रवेशो यात्रावसाने तु सपूर्वसंज्ञः । द्वंद्वामयस्त्वग्निभयादिजातस्त्वेवं प्रवेशस्त्रिविधः प्रदिष्ट इति । नवगृहं निर्माय यः प्रथमः प्रवेशः सोऽपूर्वसंज्ञः प्रवेशः यस्तु यात्रानिवृत्त्यनंतरं गृहप्रवेशः स सपूर्वसंज्ञः यस्तु अग्निभयेनाग्निदाहेन आदिशब्देन क्रुद्धेन राज्ञा पातनेन गृहनाशस्तगृहं यदा पुनः संपाद्यते तस्मिन् यः प्रवेशः स द्वंद्वाभय इत्युच्यते अन्वर्थसंज्ञा चेयम् । द्वंद्वं शीतोष्णम् अत्र शीतशब्देन जलम् उष्णशब्देनाग्निरुच्यते लक्षणया जलालावेनानवरतवृष्टिपातेन वा गृहपातस्तजलभयम् अग्निकृतदाहेन यो गृहनाशस्तदग्निभयम् तस्माच्छीतोष्णरूपात् द्वंद्वात्पुनरुत्थापनेन यदभयं तत् द्वंद्वाभयमित्युच्यते द्वंद्वाभयं विद्यते यस्मिन्नित्यर्थः । अर्शआदिभ्योऽ. जिति मत्वर्थीयोऽच् प्रत्ययः । तादृशः प्रवेशो द्वंद्वामय इति । तत्रापूर्वसपूर्वप्रवेशयोः कालशुद्ध्यादिकमिंद्रवंशयाहसौम्यायने ज्येष्ठतपोंऽत्यमाधवे यात्रानिवृत्तौ नृपतेनवे गृहे ॥ स्याडेशन द्वास्थमृदुधुवोडुभिर्जन्मक्षलग्नोपचयोदये स्थिरे ॥ १॥ सौम्यायने इति ॥ एषु सौम्यायन इत्यादिकेषु पदार्थेषु सत्सु नृपतेर्यात्रानिवृत्ती अथवा नवे नूतनोत्थापिते गृहे वेशनं प्रवेशनं स्यात् अत्र सौम्यायन इति मंदबुद्धीनां शीघ्रप्रतिपच्यर्थम् ज्येष्ठेति ज्येष्ठमाघफाल्गुनवैशाखेष्वेव सत्यप्युत्तरायणे प्रवेशनं शुभम् । मारदः । अपि सौम्यायने कार्य नववेश्मनवेशनम् । राज्ञा यात्रानिवृत्तौ चेति तथा माघफा Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248