Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra
View full book text
________________
मुहूर्तचिंतामणी
अथान्यद्योगद्वयमिंद्रवंशयाहलग्नांबरायेषु भृगुज्ञभानुभिः केंद्रे गुरौ वर्षशतायुरालयम् ॥ ist of शशी कुजार्कजौ लाभे तदाशीतिसमायुरालयम् २३
लग्नांबरायेष्विति || अत्रापि योगद्वये स्थानग्रहयोर्यथासंख्यं संबंध: । लग्ने शुक्रः दशमे बुधः एकादशे सूर्यः लग्नव्यतिरिक्तकेंद्रे गुरुः तदैवंविधे योगे प्रारब्ध आलयः गृहं वर्षशतमायुरवस्थानं यस्य तादृशं स्यात् । अथ द्वितीयः बंधाविति चतुर्थे गुरुः दशमे चंद्रः मंगलशनैश्चरावेकादशे तदा गृहमशीतिसमा वर्षाण्यायुर्यस्य तादृशं स्यात्॥२३॥ अथान्यद्योगत्रयमनुष्टुभाह—
२१८
स्वोचे शुक्रे लग्नगे वा गुरौ वेश्मगतेऽथवा ॥
शनौ स्वोच्चे लाभगे वा लक्ष्म्या युक्तं चिरं गृहम् ॥ २४ ॥ स्वोच्च इति ।। स्वोच्चस्थमीनस्थे शुक्रे लग्नगते अथवा स्वोच्चस्थे कर्कस् गुरौ चतुर्थस्थानगते सति अथवा स्वोच्चस्थे तुलास्थे शनौ एकादशस्थानगते सति चिरं लक्ष्म्या युक्तं गृहं स्यात् । यदा समुदायो भवेत् तदा पतनावधि लक्ष्म्या युतं स्यात् ॥ २४ ॥
अथ गृहस्य परहस्तगामित्वयोगमनुष्टुभाह
यूनांबरे यदेकोऽपि परांशस्थ ग्रहो गृहम् ॥ अब्दांतः परहस्तस्थं कुर्याद्वर्णोऽबलः ॥ २५ ॥
air इति ॥ एकोsपि ग्रहोत्युत्कृष्टशुभफलदाता परांशस्थः सन् यदि द्यूने सप्तमे स्यात् अथवां बरे दशमे स्यात् तदा स ग्रहः तगृहं प्रारब्धं अब्दांत ः वर्षमध्ये एव परहस्तस्थं अन्यहस्तगामि कुर्यात् । चेद्वर्णः ब्राह्मणादिवर्णस्वामी विप्राधीशौ भार्गवेज्यावित्याद्यभिहितः स चेदबलः स्यात् यदा स्ववर्णाधीशः सबलः स्यात्तदा परहस्तगामि न स्यादित्यर्थः ॥ २५ ॥
अथान्यं विशेषं वसंततिलकयाह
पुष्यध्रुवेंदु हरिसर्पजलैः सजीवस्तद्वासरेण च कृतं सुतराज्यदं स्यात् ॥ दीशाश्वितक्षवसुपाशिशिवैः सशुक्रेबारे सितस्य च गृहं धनधान्यदं स्यात् ॥ २६ ॥
पुष्येति ॥ पुष्यः ध्रुवाणि प्रसिद्धानि इंदुर्मृगः हरिः श्रवणः सर्प आश्लेषा जलं पूर्वापाढा एतैर्नक्षत्रैः सजीवैः गुरुयुक्तैः तद्वासरेण गुरुवासरेण कृतं कर्तुमारब्धं गृहं सुतान् पुत्रान् राज्यं च ददाति तादृशं स्यात् अत्र संमतिर्वसिष्ठनारदवाक्यतः । द्वीशेति । द्वीशं विशाखा
1
Aho! Shtutgyanam

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248