Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra
View full book text
________________
गृहप्रवेशप्रकरणम् ।
२२१ ल्गुनवैशाखज्येष्ठमासेषु शोभनः । प्रवेशो मध्यमो ज्ञेयः सौम्यकार्तिकमासयोरिति मध्यमोक्तिरावश्यकविषया । द्वास्थेति यस्मिन्गृहे प्रवेशः कर्तुमिष्यते तस्य यस्यां दिशि मुखं तद्दि
क्षत्रैः पूर्वादिषु चतुर्दिक्षु सप्तसप्तानलक्षत इत्याद्युक्तैर्मृदुध्रुवनक्षत्रैः प्रवेशनं स्यात् । यद्दिक्द्वारं मंदिरं तद्दिगृक्षरुक्तः स्यात्स प्रवेशो न सर्वेरिति वसिष्ठोक्तेः । अन्यदपि तत्रैव । अर्कानिलेयादितिदस्त्रविष्णुऋक्षे प्रविष्टं नवमंदिरं यत् । अब्दत्रयात्तत्परतस्तु यातं शेषेषु धिष्ण्येषु च मृत्युदं स्यादिति । जन्मक्षति । जन्मः जन्मराशिः जन्मलग्नं प्रसिद्धम् ताभ्यामुपचयं तृतीयषष्ठदशमैकादशस्थानं तस्मिन् उदये लग्ने स्थिरे स्थिराख्ये वृषसिंहवृश्चिककुंभाख्ये लग्ने प्रवेशनं शुभम् । नारदः । कर्तुर्जन्मभलग्ने वा ताभ्यामुपचयेऽपि वा । प्रवेशलग्ने स्याद्बुद्धिरन्यभे शोकनिःस्वतेति । सौम्ये स्थिरे भे शुभाष्टियुक्ते लग्नेऽथवा द्वयंगगृहे विलग्ने इति च सौम्यग्रहयुक्ते द्वचंगे द्विस्वभावराशौ ॥ १ ॥ ___ अथ जीर्णगृहप्रवेशे विशेषमिंद्रवजयाहजीर्णे गृहेऽन्यादिभयान्नवेऽपि मार्गोर्जयोः श्रावणिकेपि सत्स्यात् ॥ वेशोऽबुपेज्यानिलवासवेषु नावश्यमस्तादिविचारणाऽत्र ॥२॥
जीर्णगृह इति ॥ जीणे पुरातनेऽन्यनिर्मिते गृहे अग्निभयात् अग्निना दाहात् आदिशब्देन बहुवृष्टिराजकोपाद्युपद्रवात्पतिते गृहे पुनरपि सम्यगेव कृते उत्थापिते पूर्वोक्ताः। सर्वेऽपि मासा ज्ञेयाः । किंच मार्गोर्जयोः मार्गशीर्षकार्तिकयोश्च श्रावणिकेऽपि श्रावणेऽपि वेशः प्रवेशः सन् शुभफलदः स्यात् । सनत्कुमारः। गृहारंभोदितैर्मासैर्धिष्ण्यैवीरैविशेगृहमिति । अत्र सामान्यतो गृहारंभोदिता मासा गृहप्रवेशेऽभिहिताः । ते च । सौम्यफाल्गुनवैशाखमाघश्रावणकार्तिकाः । मासाः स्युर्गृहनिर्माणे पुत्रारोग्यधनप्रदा इति नारदोक्तेर्मार्गशीर्षफाल्गुनवैशाखमाघश्रावणकार्तिकाः विहिताः। तत्रोत्तरायण एव गृहप्रवेशस्य वाक्यांतरेण विहितत्वात् श्रावणकार्तिकमार्गशीर्षाणामुत्तरायणत्वाभावात् विरोधे नूतनजीर्णगृहप्रवेशाभ्यां व्यवस्था । कथं प्रागभिहितनारदवाक्येन उत्तरायणसाहचर्येण नूतनगृहप्रवेशपूर्वप्रवेशयोर्विधानात् गृहारंभोदितैर्मासैरित्यनेन तु सामान्यतस्त्रिविधस्यापि प्रवेशस्य विधानादुत्तरायणीयमासास्त्रिविधगृहप्रवेशे शुभाः । दक्षिणायनीयमासाः श्रावणादयस्तु जीर्णगृहप्रवेशविषयाः । अत एव नारदो मार्गशीर्षकार्तिकयोनूतनप्रवेशे मध्यमत्वमाह । अर्थादेव जीर्णगृहप्रवेशे उत्कृष्टत्वमध्यवस्यते । अंबुपेति । अंबुपः शततारका ईज्यः पुष्यः अनिलः स्वाती वासवं धनिष्ठा एषु भेषु जीर्णगृहे अग्न्यादिभयान्नवेऽपि गृहप्रवेशः शुभः प्राक् पद्योक्तनक्षत्रेषु त शुभ एवेति कैमुतिकन्यायादवगम्यते । ज्योतिःप्रकाशे । प्रवेशो नतने हम्य ध्रुवैभित्रैः सुखाप्तये । पुष्यस्वातीयुतैस्तैस्तु जीणे स्याहासवद्वये इति । नावश्यमिति अत्रैवंविधे जीणे गृहे अन्यादिभयान्नवेऽपि आवश्यकमस्तादिविचारणा शुक्रास्तगुर्वस्तबाल्यवार्धकसिंहस्थ
Aho! Shrutgyanam

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248