Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra

View full book text
Previous | Next

Page 235
________________ वास्तुप्रकरणम् । २१५ यंती नाम सा स्मृतेति च । अत्र यदि दर्शातो मासो विवक्ष्यते तदा भाद्रपदकृष्णपक्षे श्रावणे मासे चेत्येवं ब्रूयात् । तदेतन्मासस्य कृष्णादित्वे प्रमाणम् । तत्राश्विनपूर्णिमातः कार्तिकपूर्णिमांत कृष्णादित्वेन व्यवहारात्तत्र कन्यासंक्रांतिसंभवान्निषेध उपपन्नो भवति एवमेव माघे मासि धनुरर्कसंभवेन निषेधसार्थक्यमित्यलम् ॥ १६ ॥ अथ तिथिपरत्वेन द्वारनिषेधमुपजातिकयाहपूर्णेदुतः प्राग्वद्नं नवम्यादिषूत्तरास्यं त्वथ पश्चिमास्यम् ॥ दर्शादितः शुक्लदले नवम्यादौ दक्षिणास्यं न शुभं वदंति ॥ १७॥ पूर्णेदुत इति ॥ पूर्णेदुतः पूर्णिमातः कृष्णाष्टमीपर्यंतं प्राङ्मुखं गृहं शुभं न वदंति कृष्णनवमीतः चतुर्दशीपर्यंतं क्रियमाणमुत्तरास्यं न शुभम् अथ दर्शादितः शुक्लाष्टमीपर्यंतं पश्चिमास्यं गृहं न शुभं शुक्लनवमीतश्चचतुर्दशीपर्यंतं दक्षिणास्यं गृहं शुभं न वदंति तासु तासु तिथिषु तत्तद्दिङ्मुखं गृहं न कर्तव्यमित्यर्थः । व्यवहारोच्चये । पूर्णिमातोऽष्टमी यावत्पूवास्यं वर्जयेद्गृहम् । उत्तरास्यं न कुर्वीत नवम्यादिचतुर्दशीम् । अमायाश्चाष्टमी यावत्पश्चिमास्यं विवर्जयेत् ॥ नवम्यादौ दक्षिणास्यं यावच्छुक्लचतुर्दशीमिति । वेधादिविचारो न लिखितः ग्रंथगौरवात् ।। १७ ॥ अथ पंचांगशुद्धिं लग्नशुद्धिं चानुष्टुभाह भौमार्करिक्तामाङ्ने चरोनेंगे विपंचके ॥ व्यष्टांत्यस्थैः शुभैर्गेहारंभख्यायारिगैः खलः ॥ १८ ॥ भौमार्केति ॥ भौमार्कवारौ रिक्ताश्च प्रसिद्धाः अमावास्या आदिः प्रतिपत् उपलक्षणत्वादष्टम्यपि एतैरूने काले तथा चरराशिर्मेषकर्कतुलामकरै रहिते लग्ने स्थिरे द्विस्वभावे तथा विपंचके रुगनलनृपचोरमृत्युसंज्ञकपंचकरहित इत्यर्थः । उक्तं च । दारिद्रं प्रतिपत्कुर्याच्चतुर्थी धनहारिणी । अष्टम्युच्चाटनं चैव नवमी शस्त्रघातिनी ॥ दशैं राजभयं ज्ञेयं भूते दारविनाशनमिति । मांडव्येन स्तंभोच्छ्रये । धनिष्ठापंचके नैव कुर्यास्तंभसमुच्छ्रयम् । सूत्रधारशिलान्यासप्राकारादिसमारभेदिति ॥ व्यष्टांत्य इति अष्टमद्वादशस्थानव्यतिरिक्तस्थैः शुभैः पापैस्तृतीयैकादशषष्ठस्थानस्यैश्योपलक्षिते लग्ने गृहारंभः कार्यः ॥ १८ ॥ अथ देवालयादौ विदिक्षु राहुमुखमिंद्रवंशयाह देवालये गेहविधौ जलाशये राहोर्मुखं शंभुदिशो विलोमतः॥ मीनार्कसिंहामृगार्कतस्त्रिभे खाते मुखात् पृष्ठविदिक शुभा भवेत् ॥ १९ ॥ Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248