Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra

View full book text
Previous | Next

Page 232
________________ २१२ मुहूर्तचिंतामणौ . मूलादित्रितयं चापे शेषेषु नव राशय इति । अयं पक्षो वास्तुशास्त्रे नवांशानुक्तेरुक्तः । गृहस्य नक्षत्रराशिज्ञाने वर्णों वश्यमित्याद्युक्तप्रकारेण गृहस्वामिनक्षत्रराशिवशादटितादिविचारो विधेयः । तत्र नाडीवेधे प्राशस्त्यमुक्तं चिंतामणौ । सेव्यसेवकयोश्चैव गृहतत्स्वामिनोरपि । परस्परं मित्रयोश्चेदेकनाडी प्रशस्यत इति तिथिप्रयोजनं दर्श रिक्तां च वर्जयेदिति । योगानामपि दुष्टयोगाश्च वर्णाः । आयुःप्रयोजनं तावत्कालं गृहावस्थितिरिति । अत्राभीष्टांशादिसिद्ध्यर्थ अंगुलादिकं प्रक्षिप्य विशोध्य वा क्षेत्रफलं साध्यम् ॥ ११ ॥ १२ ॥ अथ गृहारंभे वृषवास्तुचक्रं शालिनीभ्यामाहगेहाद्यारंभेऽभावत्सशीर्षे रामै ३ होवेद ४ भैरग्रपादे ॥ शून्यं वेदैः ४ पृष्ठपादे स्थिरत्वं रामः३पृष्ठे श्रीयुगै ४ दक्षकुक्षौ ॥१३॥ लामो रामैः ३ पुच्छगैः स्वामिनाशो वेदै ख्यं वामकुक्षौ मुखस्थैः ॥ रामैः पीडा संततं वार्कधिष्ण्यादश्वैरुद्रदिग्भि १० रुक्तं ह्यसत्सत्॥१४॥ गेहाद्यारंभ इति । लाभो रामैरिति ॥ गेहं गृहं आदिशब्देन प्रासादग्रामादि तदारंभे सति अर्कभात् सूर्याक्रांतनक्षत्रात् रामैस्त्रिभिर्भः वृषस्य वत्सस्य शीर्षस्थितैः सद्भिः दाहः फलं स्यात् । ततो वेदभैः अग्रपादे पुरःस्थितपादद्वयस्थितैः शून्यं गृहं जनवासरहितं स्यात् । ततश्चतुर्भेः पृष्ठपादद्वयस्थैः स्थिरत्वं गृहकर्तुः ततो रामैः पृष्ठस्थैः श्रीः स्यात् । ततो युगैश्चतुर्भिः दक्षिणकुक्षिस्थितैः लाभः । ततस्त्रिभिः पुच्छगैः स्वामिनो गृहकतुर्नाशः ततो वेदैः वामकुक्षौ स्थितैः नैव्यं दारिद्यम् ततस्त्रिभिर्मुखस्थैः गृहकर्तुः पीडा संततं अनवरतं स्यात् । उक्तं च भ्रातृचरणैः । त्रिवेदवेदाग्नियुगाग्निवेदत्रिकेषु भानोः शशिभं गृहेषु । दाहो विनाशः स्थिरता धनं श्रीः शून्यं च दारिद्यमृती क्रमेणेति । अथैतस्य निष्कृष्टार्थमाह । वेति अर्कधिष्ण्यादश्वैः सप्तभैरसत्फलम् ततोरुढैरेकादशधिष्ण्यैः सत्फलम् ततो दिग्भिर्दशनक्षत्रैरसत्फलं स्यादिति । उक्तं च । रविभात्सप्त नेष्टानि शुभान्येकादशाष्टभात् । दशशेषाण्यनिष्टानि साभिजिदृषवास्तुनीति ॥ १३ ॥ १४ ॥ अथ सूर्यचंद्रमासैक्येन प्रागादिदिक्षु द्वाराणि गृहनिर्माणनक्षत्राणि च स्त्रग्धरयाहकुंभेऽर्के फाल्गुने प्रागपरमुखगृहं श्रावणे सिंहकोः पौषे नक्रे च याम्योत्तरमुखसदनं गोजगेर्के च राधे ॥ मार्गे जूकालिगे सत् ध्रुवमृदुवरुणस्वातिवस्वर्कपुष्यैः सूतीगेहं त्वदित्यां हरिभविधिभयोस्तत्र शस्तः प्रवेशः॥ १५ ॥ कुंभेर्क इति ॥ कुंभस्थे सूर्ये फाल्गुने च मासि प्रागपरमुखगृहं प्राङ्मुखं पश्चिममुखं वा गृहं सत् शुभफलं स्यात् । श्रावणे मासे सिंहकर्किसंक्रांत्योश्च प्राङ्मुखं पश्चिममुखं वा गृह Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248