Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra
View full book text
________________
२११
वास्तुप्रकरणम् । अथ केषांचिन्मतेन गृहस्यायादिनवकमुपजातिकापथ्यावक्राभ्यामाहपिंडे नवांकां९गगजाग्नि ३नाग८नागान्धिनागैर्गुणिते क्रमेण ॥ विभाजिते नागटनगांक९सूर्य १२नाग ८क्षतिथ्य१५र्फ २७खभानुभि१२०श्च ॥ ११ ॥ आयो वारोंऽशको द्रव्यमृणमृक्षं तिथियुतिः॥
आयुश्चाथ गृहेशर्भगृहभैक्यं मृतिप्रदम् ॥ १२ ॥ पिंड इति । आय इति ॥पिंडे क्षेत्रफले नवधा स्थापिते क्रमेण नवादिमिरकैर्गुणिते क्रमेण नागादिभिरंकैर्भक्ते च सति यदवशिष्टं तदायादिकं स्यात् । यथा । क्षेत्रफलं नवभिर्गुणितं अष्टभिर्भक्तं शिष्टमायः स्यात् । तद्यथा । पिंडः २०३ नवगुणितः १८२७ अष्टभक्ते शेषं ३ सिंहायो जातः एवं सर्वेऽप्यानीताः वारः ७ अंशकः ३ द्रव्यम् ४ ऋणम् १ नक्षत्रम् ४ रोहिणीतिथिश्चतुर्थी ४ योगः २ प्रीतिः आयुः ६४ । उक्तं च । गों ९ क ९ व६ष्ट ८ गुणा ३ ष्ट < नाग < जलधि ४ व्यालै ८ हतं भूफलं नागा < यं ७ क ९ दिवाकरा १२ ष्ट ८ भ २७ तिथी १५ योगैः २७ खसूर्ये १२० भजेत् । आयं वारमथांशकं धनमृणं तारां तिथिं चिंतयेद्योगं चायुरितीह शेषकपदे भागैर्हते तांत्रिकैरिति । अथैषां प्रयोजनम् । विषमायः शुभायैव समायः शोकदुःखदः । वाराणां च । सूर्यारवारराश्यंशाः सदा वह्निभयप्रदाः । यथा । गणितागतो भौमवारः स निंद्यः तद्राशी मेषवृश्चिकौ तौ निंद्यौ तदंशा यस्मिन् कस्मिंश्चिल्लग्ने मेषवृश्चिकनवांशा निषिद्धाः । एवं सूर्यवारोऽपि अन्येषां वारराश्यंशाः शुभाः अंशानां च । गृहस्यागतनक्षत्रं तहिराश्यात्मकं यदि । तन्नवांशवशात्तत्र ज्ञातव्यं सर्वदा गृहमिति । कृत्तिका द्विराश्यात्मिका तत्रैकावशेषे मेषः व्यादिशेषे वृषः मृगे व्यधिके शेषे मिथुनम् अन्यथा दृषः पुनर्वसावप्यंशकत्रयं यावन्मिथुनम् अन्यथा कर्कः एवमुत्तराफाल्गुन्यादिषु द्विराश्यात्मकेषूहनीयम् । न तु निःसंदिग्धेष्वश्विन्यादिषु धनर्णयोश्च । धनादिकं गृहं वृद्धौ निर्धनं यहणाधिकामिति । नक्षत्रस्य । विपत्प्रदा विपत्तारा प्रत्यरा प्रतिकूलदा । निधनाख्या तारका तु सर्वदा निधनप्रदा । अस्यार्थः । गृह कर्तुर्नक्षत्रागृहमसंख्या नवभक्तावशिष्टं यदि विपत्तारादिकं स्यात् तदा तगृहमनिष्टं स्यात् । अन्यथा शुभमिति । कश्यपः । दत्ते दुःखं तृतीयः पंचमङ्ख् यशः क्षयम् । आयुःक्षयं सप्तम· कर्तृभाद्यदि सद्मभमिति । यदा तु गृहकर्तुर्गृहस्य चैकमेव नक्षत्रं तत्र स्वयमेव निर्णयमाह । गृहेति । गृहेशर्स खामिनक्षत्रं प्रागुक्तप्रकारेणानीतं गृहभं च तयोरैक्यं एकमेव चेर् स्यात्तगृहकर्तुमरणप्रदं स्यात् । गृहस्य तत्पतेस्त्वेकं धिष्ण्यं चेन्निधनप्रदमिति वसिष्ठोक्तेः। वास्तुशास्त्रे द्विराश्यात्मकभेषु राश्यादिनिर्णयोऽन्यथाभिहितः। अश्विन्यादित्रयं मेषे सिंहे प्रोक्तं मघात्रयम्।
Aho! Shrutgyanam

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248