Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra

View full book text
Previous | Next

Page 230
________________ २१० मुहूर्तचिंतामणी कृताश्चत्वारः उत्तरस्यां गजा अष्टौ । अथ दिक्परत्वेन यावंति द्वाराणि एकं द्वे त्रीणि चत्वारि वा चिकीर्षितानि तावतां शालाध्रुवांकानां संयोगः सैकः एकयुतः सन् ध्रुवादिकं वेश्म गृहं स्यात् । यथा । पूर्वस्यां पश्चिमायां द्वारे अभीष्टे शाला ध्रुवौ १ । ४ अनयोर्योगः ५ सैकः ६ गृहं जातं कांताख्यम् एवं पूर्वदक्षिणोत्तरदिक्षु शालाध्रुवाणां १,२,८ संयोगः ११ सैकः १२ धनदाख्यं गृहम् दिचतुष्टये विजयाख्यं गृहं षोडशमिति ॥ ८ ॥ अथ ध्रुवादीनां नामाक्षरसंख्यां पथ्यावऋछंदसाह - तिथ्यर्काष्टष्टिगोरुद्रश नामाक्षरं त्रयम् ॥ भूयब्धीष्वंगदिग्वह्निविश्वेषु द्वौ नगेऽब्धयः ॥ ९ ॥ तिथ्यर्केति ॥ दिक्षु पूर्वादित इत्यादिना यत् ध्रुवादि वेश्म समागतं तस्य शालानुवांकसंयोगः सैको वेश्मेत्युक्तदिशासंख्यामवधारयेत् । सा चेत्संख्या पंचदशी द्वादशी अष्टमी षोडशी नवमी एकादशी चतुर्दशी वा स्यात्तदा गृहनामाक्षरं त्रयात्मकं स्यात् । यथा १५,१२,८,१६,९,११,१४, अत्र त्रीण्येवाक्षराणि सैव संख्या । प्रथमा द्वितीया चतुर्थी पंचमी षष्ठी दशमी तृतीया त्रयोदशी वा स्यात् तदा गृहनाम द्वौ अक्षरद्वयात्मकं स्यात् । यथा १,२,४,५,६,१०, ३,१३ अत्र द्वे अक्षरे पुनः सा संख्या सप्तमी स्यात्तदा अब्धयश्चतुरक्षरं गृहनाम । यथा ७ अत्र चत्वार्यक्षराणि ॥ ९ ॥ अथ यद्यपि ध्रुवादिनामाक्षरसंख्याज्ञानं प्राक्पद्ये नैव जातं तथापि तन्मध्ये कानि शुभानि कान्यशुभानीत्यसदृशफलसूचनार्थं षोडशगृहाणां नामानि आर्यागीतिच्छंदसाहध्रुवधान्ये जयनंदौ खरकांतमनोरम सुमुखदुर्मुखोग्रम् ॥ रिपुदं वित्तदनाशे चादं विपुलविजयाख्यं स्यात् ॥ १० ॥ ध्रुवधान्येति ॥ अत्रार्यागीतिलक्षणं वा आर्यापूर्वार्ध यदि गुरुणैकेनाधिकेन निधने युक्तम् । इतरत्तद्वन्निखिलं यदीयमुदितेयमार्यागीतिरिति । अत्रार्यापूवार्धे || || || || |||siऽऽ उत्तरार्धे || ss || sssss || sss सामान्यलक्षणमप्यनुसंधेयम् । विशेषलक्षणस्य सामान्यलक्षणाधीनत्वात् निधने प्रांते ध्रुवमूर्ध्वमुखं प्रथमं गृहम् । धान्यं पूर्वद्वारं द्वितीयम् । जयं दक्षिणद्वारं तृतीयम् । नंदं प्राक्दक्षिणद्वारं चतुर्थम् । खरं पश्चिमद्वारं पंचमम् । कांतं प्राक्पश्चिमद्वारं षष्ठम् । मनोरमं दक्षिणपश्चिमद्वारं सप्तमम् । सुमुखं प्राग्दक्षिणपश्चिमद्वारमष्टमम् । दुर्मुखमुत्तरद्वारं नवमम् । उग्रं पूर्वोत्तरद्वारं दशमम् । रिपुदं विपक्षाख्यं दक्षिणोत्तरद्वारमेकादशम् । वित्तदं पूर्वदक्षिणोत्तरद्वारं त्रयोदशम् । नाशाख्यं पश्चिमोत्तरद्वारं द्वादशम् । आक्रदं प्राक्पश्चिमोत्तरद्वारं चतुर्दशम् । विपुलाख्यं दक्षिणपश्चिमोत्तरद्वारं पंचदशम् । विजयं चतुर्दिद्वारं षोडशम् ॥ १० ॥ Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248