________________
विवाहप्रकरणम् ।
१३१
षापहारकमिति । अन्यच्च । षाष्टके गोमिथुनं प्रदद्यात्कांस्यं सरूप्यं नवपंचमेऽपि । वस्त्रं प्रदेयं कनकं च शक्त्या द्विर्द्वादशे ब्राह्मणतर्पणं चेति ॥ ३४ ॥ अथेंद्रवज्ञया पूर्वमध्यापरभागयोगीनि भान्याहपौष्णेशशक्राद्रससूर्यनंदा पूर्वार्धमध्यापरभागयुग्भम् ॥
भर्ता प्रियः प्राग्युजि भे स्त्रियाः स्यान्मध्ये द्वयोः प्रेमपरे प्रिया स्त्री ।। ३५ ॥
पौष्णेति । पौष्णावत्याः षट् भम् भानि जात्यभिप्रायमेकवचनम् । पूर्वार्धयोगीनि ज्ञेयानि आर्द्रादिद्वादश मध्यभागयोगीनि ज्ञेयानि । ज्येष्ठादीनि नव अपरभागयोगीनि ज्ञेयानि । फलमाह । भर्ता प्रिय इति । अयं भावः । राज्ञामंतः पुरस्थस्त्रीसमागमे गणिकादिसमागमे वा पूर्वार्धयुजि नक्षत्रे सति स्त्रीणां भर्ता प्रियः मध्यभागयुजि मे परस्परं प्रीतिर्भवेत् । परे परभागयुजि भे स्त्री नृणां प्रिया भवेदिति । एवं वधूवरयोर्नवसमागमेऽपि ज्ञेयमिति रत्नमालाटीकायां महादेवेनोक्तम् ॥ ३९ ॥ अथ प्राच्यसंमतं वर्गकूटमार्ययाह
अकचटतपयशवर्गाः खगेशमार्जारसिंहशूनाम् ॥ सर्पानुमृगावीनां निजपंचमवैरिणामष्टौ ॥ ३६ ॥
अकचटेति ॥ अज्वर्गोऽवर्गसंज्ञकः कुचुटुतुषु इति पंचवर्गाः एको यवर्गोऽन्यः शवर्गः एवमष्टौ वर्गाः । तत्र अवर्गः खगेशस्य गरुडस्य कवर्गो मार्जारस्य चवर्गः सिंहस्य टवर्गः शुनः तवर्गः सर्पस्य पवर्ग आखोर्मूषकस्य यवर्गो मृगस्य शवर्गोऽवेर्मेषस्य । अत्र निजात् स्वस्मात् पंचमा वैरिणो येषां ते तथोक्ताः गरुडसर्पयोर्मार्जारमूषकयोः सिंहमृगयोः श्वमेषयोः परस्परं महावैरमित्यर्थः । स्त्रीपुंसयोर्नक्षत्रद्वयं भक्ष्यभक्षकवर्गे चेत्तदा अशुभम् । यदा त्वेकवर्गे तदा शुभम् । एतच्च स्वामिसेवकयोरपि विचार्यम् ॥ ३६ ॥
इदानीं नक्षत्रराश्यैक्ये विशेषं शालिन्याह
राश्यैक्ये चेद्भिन्नमृक्षं द्वयोः स्यान्नक्षत्रैक्ये राशियुग्मं तथैव ॥ नाडीदोषो नो गणानां च दोषो नक्षत्रैक्ये पादभेदे शुभं स्यात् ३७
राश्यैक्ये चेदिति ॥ द्वयोर्वधूवरयोः एकराशित्वे सति यदि भिन्नमृक्षं स्यात्तदा नाडीदोषो गणानां च दोषो न स्यात् । यथा । शततारा पूर्वाभाद्रपदापादत्रयं च तथैव नक्षत्रैक्ये राशियुग्मं राशिद्वयं चेत्स्यात्तदापि प्रागुक्तो दोषो न स्यात् यथा पूर्वाभाद्रपदापादत्रयं चतुर्थचरणश्च अत्रापि विशेषमाह गर्गः । एकराशौ पृथग्विष्ण्ये पुंतारा प्रथमा भवेत् । अतीव शोभना प्रोक्ता स्त्रीतारा चेत्त्वशोभना । अथैकराशिनक्षत्रैक्ये ऽपवादमाह ।
Aho! Shrutgyanam