________________
१३२
मुहूर्तचिंतामणी
नक्षत्रैक्य इति । वधूवरयोः राश्यैक्ये नक्षत्रैक्ये च यदि चरणभेदस्तदापि शुभं स्यात् । जन्मनक्षत्राज्ञाने उपायमाह । वसिष्ठः । अज्ञातजन्मनां नृणां नामभे परिकल्पना । तेनैव चिंतयेत्सर्वं राशिकूटादि जन्मवत् || जन्मभं जन्मधिष्ण्येन नामभं नामधिष्ण्यतः । व्यत्ययेन यदा योज्यं दंपत्योर्निधनप्रदमिति ॥ ३७ ॥
सेवकादिभस्य स्वाम्यादिभात् पूर्वत्वे विशेषं वसंततिलकयाहसेव्याधमर्णयुवतीनगरादिर्भ चेत्पूर्वं हि भृत्यघनिभर्तृपुरादि सद्भात् ॥ सेवाविनाशधननाशन भर्तृनाश
ग्रामादिसौख्यहृदिदं क्रमशः प्रदिष्टम् ॥ ३८ ॥
सेव्याधमर्णेति ॥ स्पष्टार्थम् । तथा चोक्तं डामरसंग्रहे । भामिनीजन्मनक्षत्राद्वितीयं पतिजन्मभम् । न शुभं भर्तृनाशाय कथितं ब्रह्मयामले ॥ प्रथमं सेव्यजन्म द्वितीयं सेवकस्य च । न सेवा सुस्थिरा तस्य जलबुद्बुदवत्प्रियेति ॥ ऋणग्राहकजन्मक्षै प्रथमं ऋणदस्य भात् । द्वितीयमृणसंबंधो न कर्तव्यः कदाचन ॥ कदाचिद्द्रव्यलोभेन क्रियते नैव लभ्यते । पार्वतीप्राणनाथेन प्रोक्तं डामरसंग्रहे ॥ ग्राममं प्रथमं यस्य द्वितीयं जन्मभं भवेत् । न ग्राह्यः सर्वथा ग्रामो यतः प्राप्यार्थनाशद इति ॥ ३८ ॥
अथ राशिस्वामिनो नवांशविधिं च मंजुभाषिण्याहकुजशुक्र सौम्यशशिसूर्यचंद्रजाः कविभौमजीवशनि सौरयो गुरुः ॥ इह राशिपाः क्रियमृगास्यतौलिकेंदुभतो नवांशविधिरुच्यते बुधैः ॥ ३९ ॥
कुजशुक्रेति ॥ स्पष्टार्थम् । क्रियमृगास्येति । क्रियो मेषः मृगास्यं मकरः तौलिकं तुला इंदुभं कर्कः एभ्यो राशिभ्यो बुधैर्नवांशविधिरुच्यते । मेषे मेषादेव वृषे मकरात् मिथुने तुलातः कर्के कर्कादेव एवं सिंहे मेषात् कन्यादिषु मकरादिभ्यः एवमेव धनुरादिष्वपि मेषादिभ्य एव ॥ ३९ ॥
अथ होरां गायत्रीच्छंदोभेदेन शशिवदनावृत्तेनाह
समगृहमध्ये शशिरविहोरा ॥
विषमभमध्ये रविशशिनोः सा ॥ ४० ॥
समगृहेति ॥ पंचदशभागमितैकैका होरा ततः समराशिमध्ये प्रथमा चंद्रस्य द्वितीया सूर्यस्य विषमराशिमध्ये प्रथमा रखेरपरा चंद्रस्येत्यर्थः ॥ ४० ॥
Aho! Shrutgyanam