________________
विवाहप्रकरणम् ।
अथ त्रिंशांशद्रेष्काणान् वसंततिलकयाहशुक्रज्ञजीवशनिभूतनयस्य वाणशैलाष्टपंचविशिखाः समराशिमध्ये | त्रिंशांशको विषमभे विपरीतमस्माद्देcareer: प्रथमपंचनवाधिपानाम् ॥ ४१ ॥
शुक्रेति ॥ समराशिमध्ये क्रमेण प्रथमतः पंचांशानां शुक्रः स्वामी ततः शैलानां सप्तानां बुधः ततोऽष्टानां गुरुः ततः पंचानां शनिः ततः पंचानां भौमः विषमभे तु अस्मात्समराशेऽर्विपरीतं ज्ञेयम् । प्रथमतः पंचानां भौमः ततः पंचानां शनिः ततोऽष्टानां जीवः ततः सप्तांशानां बुधः ततः पंचानां शुक्रः अयं त्रिशांशकसंज्ञः । द्रेष्काणका इति । अस्य प्रमाणं दशांशाः तत्र प्रथमदशांशः प्रथमो द्रेष्काणः स प्रथमस्य स्वाधीशस्य ततो दशांशाः विंशतिभागपर्यंतं द्वितीयो द्रेष्काणः स स्वराशितः पंचमराशीश्वरस्य ततो विंशतिभागानंतरं दशांशास्तृतीयो द्रेष्काणः स स्वराशेर्नवमाधीश्वरस्य यथा मेषे प्रथमद्रेष्काणो भौमस्य द्वितीयः सूर्यस्य तृतीयो गुरोरिति ॥ ४१ ॥ अथ द्वादशांशं षड्वर्गोपसंहारं च सफलं वसंततिलकयाहस्याद्वादशांश इह राशित एव गेहूं होराथ नवमांशक सूर्यभागाः ॥ त्रिंशांशक पडिमे कथितास्तु वर्गाः
सौम्यैः शुभं भवति चाशुभमेव पापैः ॥ ४२ ॥
१३३
स्याद्वादशांश इति ॥ इह षडुर्गे द्वादशांशः राशितः स्वराशेरेव सार्वभागद्वयात्मको ज्ञेयः मेषस्य मेषादिः वृषस्य वृषादिरित्यर्थः । गेहं होरादृक्कः नवमांश : द्वादशांशः त्रिंशांशः इमे षड्वर्गाः कथिताः । एते वर्गाः सौम्यग्रहाणां चेद्भवंति तदा शुभम् पापानां चेदशुभम् मिश्राश्चेदधिकवर्गसदृशं फलम् । अत्र नारदादिभिरेकविंशतिर्महादोषा उक्ताः यथा । पंचांगशुद्धिरहितो दोषस्त्वाद्यः प्रकीर्तितः । उदयास्तशुद्धिरहितो द्वितीयः सूर्यसंक्रमः ॥ तृतीयः पापषडुर्गो भृगुः षष्ठः कुजोऽष्टमः । गंडांतं कर्तरी रिःफषडष्टें दुश्च सग्रहः ॥ दंपत्योरष्टमं लग्नं राशिर्विषघटी तथा । दुर्मुहूर्तो वारदोषः खार्जूरिकसमांघ्रिभम् ॥ ग्रहणोत्पातभं क्रूरविद्धर्क्ष क्रूरसंयुतम् । कुनवांशो महापातवैधृतावेकविंशतिरिति । अन्यैस्तु दश दोषा उक्ताः। वेधश्च लत्ता च तथा च पातः खार्जूरयोगं दशयोगचक्रम् । पुनश्च जामित्रमुपग्रहाश्च बाणाख्यव्रत्रौ दश चैव दोषा इति । अत्र ग्रंथकता लक्षणस्य पृथग्वक्तव्यत्वाद्दोषनापानि नोक्तानि । तत्र पंचांगशुद्धिदुर्मुहूर्त वारदोषग्रहणोत्पात नक्षत्रदोषा आद्ये
१ द्रेाणका इत्यपि पाठः ।
Aho! Shrutgyanam