________________
१३४
मुहूर्तचिंतामणी
शुभाशुभप्रकरणे निरूपिता एवेति पुनर्नोच्यते । दुर्मुहूर्तवारदोषयोः पुनरभिधानप्रयोजनं तत्रैव वक्ष्यामः । तत्र पापषड्वर्गाख्यो दोषः कुजशुक्रेत्यादिभिश्चतुर्भिः श्लोकैर्निरूपितः ॥४२॥ अथ गंडांतदोषं शार्दूलविक्रीडितेनाह
1
ज्येष्ठपौष्णभसाप भांत्यघटिकायुग्मं च मूलाश्विनीपित्र्यादौ घटिकादयं निगदितं तद्भस्य गंडांतकम् ॥ कर्काल्यंडजभांततोऽर्धघटिका सिंहाश्वमेषादिगा पूर्णाताटिकात्मकं त्वशुभदं नंदातिथेश्चादिमम् ॥ ४३ ॥ ज्येष्ठपौष्णेति ॥ गंडांतं नाम संधिविशेषः स चानेकविधः नक्षत्रतिथिलग्नसंधिः तथा योगकरणवर्षायनर्तुमासपक्ष दिनरात्रिमध्याह्नप्रातः सायंनिशीथसंधिश्चेति । तत्र नक्षत्रतिथिलग्नसंधिर्गडांतसंज्ञ उच्यते । ज्येष्ठा पौष्णभं रेवती सार्पममाश्लेषा एतेषामंत्यघटिकाद्वयं तथा मूलाश्विनीमघानामादौ घटिकाद्वयं तस्य नक्षत्रस्य गंडातं ज्ञेयम् । यथा । रेवत्यश्विन्योराश्लेषामघयोर्ज्येष्ठामूलयोरंतरालवर्तिघटीचतुष्टयं नक्षत्रगंडांतमशुभदमित्यर्थः । अथ लग्नगंडांतं कर्केति कर्कः अलिर्वृश्चिकः अंडजो मीनः । मीनो वैसारिणोंडज इत्यभिधानात् । एषां लग्नानामंततोऽर्धघटिका । सप्तम्यर्थे तासः । अंतेऽर्घघटिका तथा सिंहमेषौ प्रसिद्धौ अश्वो धनुः एषां लग्नानां आदिगतार्धघटिका लग्नगंडातम् यथा कर्कसिंहयोर्मीनमेषयोर्वृश्चिकधनुषोश्यांतरालवर्तिन्येका घटिका तिथिगंडांतमशुभदमित्यर्थः । पूर्णातादिति । पूर्णाः पंचमी दशमी पंचदश्यस्तासामंते घटिकैका तथा नंदाः प्रतिपत्षष्ठयेकादश्यः तासामादिगतैका घटिका तिथिगंडांतं नाम यथा पंचमीषष्ठयोः दशम्येकादश्योः पंचदशीप्रतिपदोः तिथ्योरंतरालवर्ति घटीद्वयं तिथिगंडांतमशुभमित्यर्थः । एवं गंडांतसंज्ञः संधिः अतोऽन्येऽपि संघयो वसिष्ठेनोक्ताः । पक्षोऽब्दसंधिस्त्रिदिनं च माससंधिस्त्रिनाड्यः खलु संध्ययोश्च । नाड्यश्चतस्त्रस्तिथिऋक्षयोगसंधिस्तदर्धं करणस्य संधिः ॥ पक्षांते पुत्रनाशः स्यान्मासांते तु धनक्षयः । वर्षांते वर्गनाशः स्यात्करणात्सर्वनाशनमिति ॥ आवश्यकत्वे तु । नक्षत्रयोग तिथि संधिषु नाडिकैका तिथ्यष्टविंशतिपलैः सहितोभयत्र । कर्काीलिमीनतनुसंधिषु दिक्पलानि वर्ज्यानि शेषविवरेषु च पंच पंचेति । वासनासिद्धं केशवार्कवाक्यमनुसर्तव्यम् । गंडांतपरिहारमाह वसिष्ठः । गंडांतदोषमखिलं मुहूर्ताभिजिदाह्वयः । हंति यद्वन्मृगं व्याधः पक्षिसंघमिवाखिलमिति ॥ ४३ ॥
अथकर्तरीदोषमनुष्टुभाह
लग्नात्पापावृज्वन्न्रजू व्ययार्थस्थौ यदा तदा ॥
कर्तरी नाम सा ज्ञेया मृत्युदारिद्रयशोकदा ॥ ४४ ॥ लग्नात्पापाविति ॥ यदा पापग्रहौं ऋज्वनृजू लग्नाद्व्ययार्थस्थौ द्वादशस्थः पाप
Aho! Shrutgyanam