________________
विवाहप्रकरणम् ।
१३५
I
ग्रहो ऋजुर्मार्गी द्वितीयस्थः पापोऽनृजुर्वक्री स्यात्तदा कर्तरीनामदोषः स्यात् मृत्युदारिद्र्यशोकदा भवेत् । कर्तरीकारकौ ग्रहौ उभावपि वक्रिणौ शीघ्रगौ वा तदा कर्तरी नेत्याह । वसिष्ठः । लग्नस्य ष्टष्ठाग्रगयोरसाध्वोः सा कर्तरी स्यादृजुवक्रगत्योः । तावेव शीघ्रौ यदि वक्रचारौ न कर्तरी चेति पितामहोक्तिरिति । इयं कर्तरी चंद्रस्यापि द्रष्टव्या । कश्यपः । चंद्रस्य कर्तरी तच्छुभदृष्टा न दोषदेति । परंतु लग्नस्य चंद्रस्य वा क्रूरमध्यगतत्व दोषोऽस्त्येव कर्तरीतः स्वल्पफलः कन्यानाशकरत्वात् । क्रूर ग्रहमध्यगते लग्ने चंद्रेऽथवा करग्रहणम् । ते यमसदनाभिमुखं गमनं स्वेच्छंति कन्याया इति वसिष्ठोक्तेः । कर्तरीदोषापवादम स्वयमपि वक्ष्यति ॥ ४४ ॥
अथ सग्रहदोषमनुष्टुभाह
चंद्रे सूर्यादिसंयुक्ते दारिद्र्यं मरणं शुभम् ॥ सौख्यं सापत्न्यवैराग्ये पापद्वययुते मृतिः ॥ ४५ ॥
चंद्रेति ॥ सूर्ययुक्ते चंद्रे दारिद्र्यं स्यात् । एवं भौमादिषु मरणादिफलं क्रमेण स्यादित्यर्थः । पापद्वययोगे चंद्रस्य मृतिः स्यात् । नारदादिभिर्बुध गुरुराहित्यफलमशुभमुक्तम् । अत्र तु श्रीपतिवाक्यानुरोधात् वसिष्ठेन च केचिन्मते शुभत्वोक्तेश्च शुभमुक्तम् । श्रीपतिः । शुभं च दंभोलिभृदीज्यविद्भयामिति । वसिष्ठः । दारिद्र्यं रविणा कुजेन मरणं सौम्येन न स्युः प्रजा दौर्भाग्यं गुरुणा सितेन सहिते चंद्रे ससापत्न्यकम् । प्रव्रज्यार्कसुतेन सग्रहयुजौ वांछंति केचिच्छुभं व्याद्यैर्मृत्युरसद्व हैः शशियुतैर्दीर्घः प्रवासः शुभैरिति । एतत्परिहारो नारदेनेोक्तः । स्वक्षेत्रगः स्वोच्चगो वा मित्रक्षेत्रगतो विधुः । युतिदोषाय न भवेद्दंपत्योः श्रेयसे तदेति ॥ ४५ ॥
अथाष्टमलग्नदोषं सापवादमनुष्टुभाह
-
जन्मलग्नभयोर्मृत्युराशौ नेष्टः करग्रहः ॥
एकाधिपत्ये राशीशमैत्रे वा नैव दोषकृत् ॥ ४६ ॥
जन्मलग्नभयोरिति ॥ जन्मलग्नजन्मराशिसंबंधिनि मृत्युराशौ अष्टमराशौ अष्टमलग्ने करग्रहो विवाहो नेष्टः । अत्र जन्मलग्ने जन्मराशौ च विशेषमाह नारदः । जन्मराश्युद्गमे नैव जन्मलग्नोदयः शुभः । तयोरुपचयस्थानं यदि लग्नगतं शुभम् । अष्टमलग्नापवादमाह । एकेति । जन्मराशिजन्मलग्नयोरन्यतरस्य विवाहलग्नस्य च स्वाम्यैक्ये सति यथा मेषवृश्चिकयोः ः तथा तयो राशीश्वरयोर्मैत्रे सति यथा सिंहमीनयोः एतादृशे विषये अष्टमलप्रदोषो न स्यात् ॥ ४६ ॥
Aho! Shrutgyanam