Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra

View full book text
Previous | Next

Page 218
________________ . १९८ मुहूर्तचिंतामणौ अन्यदपि शालिन्याहदुग्धं त्याज्यं पूर्वमेव त्रिरात्रं क्षौरं त्याज्यं पंचरात्रं च पूर्वम् ॥ क्षौद्रं तैलं वासरेऽस्मिन्वमिश्च त्याज्यं यत्नामिपालेन नूनम् ॥१६॥ दुग्धमिति ॥ यात्रादिनात्पूर्वं भूमिपालेन राज्ञोपलक्षणत्वात् गमनका यत्नात् दुग्धं पेयत्वेन त्रिदिनं त्याज्यम् । न तु द्रव्यत्वेन तद्विकारः पायसं च निषिद्धम् । च पुनः पंचरात्रं पूर्व क्षौरं क्षुरसंबंधि कृत्यं मुंडनं श्मश्रुकर्म च त्याज्यम् । अस्मिन्वासरे यात्रादिने क्षौद्रं मधु भक्ष्यत्वेन तैलें तैललापनं त्याज्यम् । वमिश्चेदेवोद्भूता शरीरशोधनार्थ बलात्कारकृता वा यात्रादिने निषिद्धा ॥ ९६ ॥ अन्यदपि गीत्याह भुक्त्वा गच्छति यदि चेत्तैलगुडक्षारपकमांसानि ॥ विनिवर्तते स रुग्णः स्त्रीद्विजमवमान्य गच्छतो मरणम् ॥९७॥ भुक्त्वोत ॥ यदि तैलपक्वानि वटकादीनि गुडमिक्षविकारम् क्षारं सलवणम् पक्वमांसानि यो भुक्का गच्छति स राजातिरुग्णो रोगसहितो विनिवर्तते । गर्गः । कटुतैलगुडक्षारं पक्वमांसाशनं तथा । भुक्त्वा यो यात्यसौ मोहाद्व्याधितः सन्निवर्तत इति । मांसदुग्धादिनिषेधो दोहदव्यतिरिक्तविषयः । स्त्रीद्विजमिति स्त्री च द्विजश्च तयोः समाहारः स्त्रीद्विजं अवमान्य धिक्शब्दताडनादिना मानभंगं कृत्वा गच्छतः पुंसो मरणं स्यात् । गर्गः । यस्तु संप्रस्थितो यात्रां भार्या नैवाभिनंदति । भार्या वा नाभिनंदेत न स प्रतिनिवर्तते ॥ परकीयां स्वकीयां वा स्त्रियं पुरुषमेव च । ताडयित्वा तु यो मोहात्तदंतं तस्य जीवितम् ॥ यात्रायां प्रस्थितो यस्तु ब्राह्मणानवमानयेत् । नासौ प्रतिनिवर्तत तदंतं तस्य जीवितम् ॥ केचिच्छुभाशुभशब्दान्यात्राकाले शुभाशुभसूचकानाहुः । लल्लः । प्रापय गच्छ विसर्जय निर्गच्छ व्रज सरेति सिद्धिकराः । खल्वेतेष्वप्यधिका प्रमोदजयजीवशब्दाश्च ॥ मागास्तिष्ठ निवर्तय क्क गम्यते मूढ दुर्मते मोहात् । यात्रां नेच्छंति बुधाः शुतकासितभीतशब्दैश्चेति । कासितं रोगातध्वनिर्हिक्कादिः ॥ ९७ ॥ ___ अथाकालदृष्टयाख्यदोषं वसंतमालिकयाहयदि माःसु चतुषु पौषमासादिषु वृष्टिहिं भवेदकालवृष्टिः॥ पशुमर्त्यपदांकिता न यावदसुधा स्यान्न हि तावदेव दोषः ॥९८॥ ___ यदीति ॥ पौषमाधफाल्गुनचैत्रेषु चतुर्पु मासेषु यदि दृष्टिर्भवेत्साऽकालवृष्टिः । पौपादिचतुरो मासान् प्राप्ता वृष्टिरकालजेति वचनात् । तत्राकालवृष्टयां जातायां यदि वसुधा पृथ्वी यावत् पशवो गवादयः मा मनुष्यास्तेषां पदैश्चरणैरङ्किता चिह्निता न भवति तावदकालवृष्टेर्दोषो नास्ति यदि पशुचरणांकिता स्यात्तदा दोषोऽस्त्येव । अत्र प्राच्या अल्पवृष्टौ Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248